SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १९२ धन्वन्तरीयनिघण्टुः [ आम्रादि:राजनिघण्टौ प्रभद्रादिर्नवमो वर्गःज्ञेयो महाकरजोऽन्यः षड्ग्रन्थो हस्तिचारिणी । उदकीर्यो विषनी च काकनी मदहस्तिनी ॥ १८१ ॥ अङ्गारवल्ली शाङेष्टा मधुसत्ता वमायिनी(?)। हस्तिरोहणकश्चैव ज्ञेयो हस्तिकरञ्जकः॥ १८२ ॥ सुमनाः काकभाण्डी च मदमत्तश्च षोडश । गुणाः-*1* ॥ १८३ ॥ राजनिघण्टौ प्रभद्रादिर्नवमो वर्ग: गुच्छकरञ्जः (करञ्जविशेषः ) ॥ १७ ॥ अन्यो गुच्छकरञ्जः स्निग्धदलो गुच्छपुच्छको नन्दी । गुच्छी च मातृनन्दी सानन्दो दन्तधावनो वसवः ॥ १८४ ॥ गुणाः—करञ्जः कतिक्तोष्णो विषवातातिनाशनः । कण्डूविचिकाकुष्ठस्पर्शत्वग्दोपनाशनः ॥ १८५ ॥ राजनिघण्टौ प्रभद्रादिर्नवमो वर्गः रीठाकरञ्जः ( करञ्जविशेषः ) ॥ १८ ॥ रीठाकरञ्जकस्त्वन्यो गुच्छलो गुच्छपुष्पकः । रीटा गुच्छफलोरिष्टो मङ्गल्यः कुम्भवीजकः ॥ १८६ ॥ प्रकीर्यः सोमवल्कश्च फेनिलो रुद्रसंज्ञकः । गुणाः—रीठाकरञ्जस्तिक्तोष्णः कटुस्निग्धश्च वातजित् । कफन्नः कुष्ठकण्डू. तिविषविस्फोटनाशनः ॥ १८७ ॥ (३६) शिरीषः।। शिरीषो मृदुपुष्पश्च भण्डिकः शङ्खिनीफलः । कपीतनः शुकतरुः श्यामवर्णः शुकप्रियः ॥ ११२॥ गुणाः-तिक्तोष्णो विषहा वर्ण्यत्रिदोषशमनो लघुः। शिरीपः कुष्ठकण्डूघ्रस्त्वग्दोषश्वासकासहा ॥ ११३ ॥ राजनिघण्टौ प्रभद्रादिनवमो वर्गःशिरीषः शीतपुष्पश्च भण्डिको मृदुपुष्पकः । शुकेष्टो बर्हिपुष्पश्च विपहन्ता सुपुष्पकः ॥ १८८ ॥ उद्दानकः शुकतरु यो लोमशपुष्पकः । कपीतनः कलिङ्गश्च श्यामलः शङ्खिनीफलः ॥१८९ ॥ मधुपुष्पस्तथा वृत्तपुष्पः सप्तदशाह्वयः॥ गुणाः शिरीषः कटुकः शीतो विषवातहरः परः । पामामृकुष्ठकण्डूतित्वग्दोषस्य विनाशनः ॥ १९० ॥ १ क. ड. भण्डकः । २ ज. मार्शःकुष्ट । For Private and Personal Use Only
SR No.020593
Book TitleRajnighantu Ssahito Dhanvantariya Nighantu
Original Sutra AuthorN/A
AuthorHarinarayan Aapte
PublisherAnandashram Mudranalay
Publication Year
Total Pages619
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy