SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १६७ ४ चतुर्थो वर्गः] राजनिघण्टुसहितः। (५४) बिसम् (मृणालम् ) विसं मृणालं बिसिनी मृणाली स्यान्मृणालिका । मृणालकं पद्मनालं तण्डुलं नलिनीरुहम् ॥ १६१ ॥ गुणाः-अविदाहि विसं प्रोक्तं रक्तपित्तप्रसादनम् । विष्टम्भि मधुरं रूक्षं दुर्जरं वातकोपनम् ॥ १६२॥ राजनिघण्टौ करवीरादिर्दशमो वर्ग:मृणालं पद्मनालं च मृणाली च मृणालिनी । बिसं च पद्मतन्तुश्च बिसिनी नलिनीरुहम् ॥ २५८ ॥ गुणाः-मृणालं शिशिरं तिक्तं कषायं पित्तदाहजित् । मूत्रकृच्छ्रविकारघ्नं रक्तवान्तिहरं परम् ॥ २५९ ॥ (५५) पद्ममूलम् (मूलम् ) पद्ममूलं तु शालूकं सकलं करहाटकम् । शालिनं पद्मकन्दं च जलालूकं निगद्यते ॥ १६३ ॥ गुणाः-पद्मकन्दः कपायः स्यात्स्वादे तिक्तो विपाकतः। शीतवीर्योऽसपितोत्थरोगभङ्गाय कल्पते ॥ १६४ ॥ राजनिघण्टौ करवीरादिर्दशमो वर्ग:पद्मकन्दस्तु शालूकं पद्ममूलं कटाह्वयम् । शालीनं च जलालूकं स्यादित्येवं पडाह्वयम् ॥ २६०॥ गुणाः—शालूकं कटु विष्टम्भि रूक्षं रुच्यं कफापहम् । कषायं कासपित्तघ्नं तृष्णादाहनिवारणम् ॥ २६१॥ (५६) पद्मकेसरम् ( केसरम् ) पद्मकेसरमापीतं किञ्जल्कं किञ्जमेव च । मकरन्दं तथा तुझं गौरं काञ्चनकं च तत् ॥ १६५॥ गुणाः-तृपानं शीतलं रूक्षं पित्तरक्तक्षयापहम् । पद्मकेसरमेवोक्तं पित्तनं सकपायकम् ॥ १६६ ॥ राजनिघण्टौ करवीरादिर्दशमो वर्ग:किञ्जल्लं मकरन्दं च केसरं पद्मकेसरम् । किञ्ज पीतं परागं च तुझं चाम्पेयकं नव ॥ २६२ ॥ गुणाः—किजल्लं मधुरं रूक्षं कटु चास्य व्रणापहम् । शिशिरं रुच्यपित्तनं तृष्णादाहनिवारणम् ॥ २६३ ॥ For Private and Personal Use Only
SR No.020593
Book TitleRajnighantu Ssahito Dhanvantariya Nighantu
Original Sutra AuthorN/A
AuthorHarinarayan Aapte
PublisherAnandashram Mudranalay
Publication Year
Total Pages619
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy