________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४ चतुर्थो वर्गः ] राजनिघण्टुसहितः।
१५५ (३४) महासुगन्धा। *अन्या महासुगन्धा च सुवहा गन्धनाकुली । सर्पाक्षी नकुलेष्टा च च्छत्राकी विषमर्दिनी ॥ १०५ ॥
गुणाः-सर्पाक्षी कटुका तिक्ता तथा च कृमिरोगजित् । वृश्चिकोद्भवसर्पादिविषनी व्रणरोपणी ॥ १०६ ॥
राजनिघण्टौ मूलकादिः सप्तमो वर्गः___*। साक्षी फणिहत्री च नकुलान्याऽहिभुक्क सा ॥ १५३ ॥ विपमर्दनिका चाहिमर्दिनी विषमर्दिनी । महाहिगन्धाऽहिलता ज्ञेया सा द्वादशाद्वया ।। १५४ ॥ ___ गुणाः-नाकुलीयुगुलं तिक्तं कट्रष्णं च त्रिदोषजित् । अनेकविषविध्वंसि किंचिच्छ्रेष्ठं द्वितीयकम् ॥ १५५ ॥
(३५) वृद्धदारुकः। *वृद्धदारुक आवेगी जुङ्गको दीर्घवालुकः । वृद्धः कोटरपुप्पी स्यादजात्री छागलाव्यपि ॥ १०७॥
गुणाः-वृद्धदारुः कटुस्तिक्तस्तथोष्णः कफवातजित् । श्वयथुकृमिमेहास्रवातोदरहरः परः ॥ १०८ ॥
राजनिघण्टौ गुडूच्यादिस्तृतीयो वर्गः* । वृद्धः कोटरपुष्पी स्यादजात्री छागलात्रिका ॥ १५६ ॥ जीर्णदारुद्वितीया स्याजीर्णा फञ्जी सुपुष्पिका । अजरा सूक्ष्मपत्रा च विज्ञेया च पडावया ॥ १५७॥
गुणाः-वृद्धदारुद्वयं गौल्यं पिच्छिलं कफवातहत् । बल्यं कासामदोपत्रं द्वितीयं स्वल्पवीर्यदम् ॥ १५८ ॥
(३६) रक्तपादी। रक्तपादी शमीपत्रा समङ्गाऽञ्जलिकारिका । नमस्कारी गन्धकारी स्पर्शसंकोचपर्णिका ॥ १०९ ॥
गुणाः-*रक्तपादी कटुः शीता पित्तातीसारनाशनी । *शोफदाहश्रमश्वासव्रणकुष्टकफास्रनुत् ॥ ११० ॥
राजनिघण्टौ पर्पटादिः पञ्चमो वर्ग:रक्तपादी शमीपत्रा स्पृक्का खदिरपत्रिका | संकोचनी समगा च नमस्कारी
१ ह. छ. झ. च्छत्राक्षी । २ क. ड. लध्वी । ३ ण. त. जीर्णवालुकः ।
For Private and Personal Use Only