________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
धन्वन्तरीयनिघण्टुः
[ करवीरादिःचूडामणिः। (काकमाची विशेषः)।। ७ ॥ चूडामणिः शीतपाकी शिखण्डी कृष्णला मता । उच्चटा ताम्रिका गुञ्जा चटकी काकसाह्वया ॥ २९ ॥
गुणाः--गुञ्जा रूक्षा तथा तिक्ता वीर्योष्णा च प्रकीर्तिता । विषवैषम्यजन्तुनी रोगग्रामभयापहा ॥ ३०॥
राजनिघण्टौ गुडूच्यादिस्तृतीयो वर्ग:-- गुञ्जा चूडामणिः सौम्या शिखण्डी कृष्णलाऽरुणा । ताम्रिका शीतपाकी स्यादुच्चटा कृष्णचूडिका ॥ ४६ ॥ रक्ता च रक्तिका चैव काम्भोजी भिल्लभूषणी । वन्याऽश्ममलचूडा च विज्ञेया षोडशाह्वया ॥ ४७ ।।
श्वेतकाम्भोजी । ( काकमाचीविशेषः ) ॥ ८॥ अपरा श्वेतकाम्भोजी श्वेतगुञ्जा भिरीटिका । काकादनी काकपीलुर्वक्त्रशल्या सितोचटा ॥ ३१॥ ___ गुञ्जाद्वयगुणाः-गुञ्जाद्वयं च शीतोष्णं बीजवान्तिकरं शिफा । शूलनी विषहृत्पत्रं वश्य श्वेता प्रशस्यते ॥ ३२॥
राजनिघण्टौ गुडूच्यादिस्तृतीयो वर्गः-- द्वितीया श्वेतकाम्भोजी श्वेतगुञ्जा भिराटिका । काकादनी काकपीलुर्वक्त्रशल्या षडाह्वया ॥४८॥
गुञ्जाद्वयगुणाः-गुञ्जाद्वयं तु तिक्तोष्णं वीजं वान्तिकरी शिफा । शूलप्नं विषहृत्पत्रं वश्ये श्वेता च शस्यते ॥ ४९ ॥
(९) मूलकम् । मूलकं हरिपर्ण च मृत्तिकाक्षारमेव च । नीलकन्दं महाकन्दं रुचिष्यं हस्तिदन्तकम् ॥ ३३ ॥
गुणाः ---मूलकं गुरु विष्टम्भि तीक्ष्णमामत्रिदोषनुत् । तदेव स्विन्नं स्निग्धं च कटुष्णं कफवातनुत् ॥ ३४ ॥ त्रिदोषशमनं शुष्कं विषदोषहरं लघु ।
राजनिघण्टौ मूलकादिः सप्तमो वर्गःमूलकं नीलकण्ठं च मूलाई दीर्घमूलकम् । भूक्षारं कन्दमूलं स्याद्धस्तिदन्तं सितं तथा ॥ ५० ॥ शङ्खमूलं हरित्पर्ण रुचिरं दीर्घकन्दकम् । कुञ्जरक्षारमूलं च मूलस्यैते त्रयोदश ॥ ५१॥
१ क. र्वक्रश' । २ त. 'न्तिहरा शिौं । ३ क. ङ. 'करी शि। ४ झ. 'रं हि तत् । श् । ५ ट. शूलनी । ६ ण. रोचिष्यं ।
For Private and Personal Use Only