SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १३६ धन्वन्तरीयनिघण्टुः [ करवीरादिःगुणाः-लागली कटुरुष्णा च कफवातविनाशनी । तिक्ता सारा च श्वयथुगर्भशल्यव्रणापहा ॥ १० ॥ राजनिघण्टौ शताहादिश्चतुर्थो वर्गःकलिकारी लागलिनी हलिनी गर्भपातिनी । दीप्ता विशल्याऽग्निमुखी हली नक्तेन्दुपुष्पिका ॥ १७ ॥ विद्युज्ज्वालाऽमिजिह्वा च व्रणहृत्पुष्पसौरभा । स्वर्णपुष्पा वह्निशिखा स्यादेषा षोडशाह्वया ॥ १८ ॥ _गुणाः—कलिकारी कटूष्णा च कफवातनिकृन्तनी । गर्भान्तःशल्यनिष्कासकारिणी सारिणी परा ॥ १९ ॥ (५) भृङ्गराजः । भृङ्गराजो भृङ्गरजो मार्कवो भृङ्ग एव च । भृङ्गारको भृङ्गरेणुभृङ्गारः केशरअनः ॥ ११ ॥ गुणाः-भृङ्गराजः समाख्यातस्तिक्तोष्णो रूक्ष एव च । कफशोफामपाण्डूत्वग्घृद्रोगविषनाशनः ॥ १२॥ राजनिघण्टौ शताहादिश्चतुर्थो वर्ग:__ मार्कवो भृङ्गराजश्च भृङ्गाह्वः केशरञ्जनः। पितृपियो रङ्गकश्च केश्यः कुन्तलवर्धनः ॥ २० ॥ पीतोऽन्यः स्वर्णभृङ्गारो हरिवासो हरिप्रियः । देवप्रियो वन्दनीयः पावनश्च पडाह्वयः ॥२१॥ नीलस्तु भृङ्गराजोऽन्यो महानीलस्तु नीलकः । महाभृङ्गो नीलपुष्पः श्यामलश्च पडाह्वयः ॥ २२ ॥ गुणाः-भृङ्गराजास्तु चक्षुष्यास्तिक्तोष्णाः केशरञ्जनाः । कफशोफविषनाश्च तत्र नीलो रसायनः ॥ २३ ॥ (६) अर्कः । ( उपविषम् ) अर्कः सूर्याह्वयः पुष्पी विक्षीरोऽथ विकीरणः। जम्भलः क्षीरपर्णी रयादास्फोटो भास्करो रविः ॥ १३ ॥ गुणाः--अर्कस्तिक्तो भवेदुष्णः शोधनः परमः स्मृतः। कण्डूत्रणहरो हन्ति जन्तुसंततिमुद्धताम् ॥ १४ ॥ अर्कस्तु कदुरुष्णश्च वातहृद्दीपनः सरः। शोफव्रणहरः कण्डूकुष्ठप्लीहकमीञ्जयेत् ॥ १५ ॥ राजनिघण्टौ करवीरादिर्दशमो वर्गः * अर्कक्षीरशोधनम्-पञ्चगव्येषु शुद्धं तु देयमर्कद्वयं तथा । अर्कद्वयं सरं वातकुष्टकण्डूविषापहम् । विहन्ति प्लीहगुल्माशेयकृच्छ्लेष्मोदरकृमीन् । १ झ वृत्लेशवयसां हितः । For Private and Personal Use Only
SR No.020593
Book TitleRajnighantu Ssahito Dhanvantariya Nighantu
Original Sutra AuthorN/A
AuthorHarinarayan Aapte
PublisherAnandashram Mudranalay
Publication Year
Total Pages619
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy