SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धन्वन्तरीयनिघण्ट: [चन्दनादिःगुणाः-पुष्पादिकासीसमतिप्रशस्तं सोष्णं कषायाम्लमतीव नेत्र्यम् । विषानल श्लेष्मगदव्रणनं श्वित्रक्षयघ्नं कचरञ्जनं च ॥ १२६ ॥ राजनिघण्टौ सुवर्णादित्रयोदशो वर्गः*। * ॥ १८१ ॥ गुणाः-पुष्पकासीसकं तिक्तं शीतं नेत्रामयापहम् । लेपेनात्यामकुष्ठादिनानात्वग्दोषनाशनम् ॥ १८२ ॥ (४९) गुग्गुलुः । गुग्गुलु कालनिर्यासो जटायुः कौशिकः पुरः । नक्तंचरः शिवो दुर्गो महिपाक्षः पलंकषा ॥ १२७ ॥ गुणाः-गुग्गुलुः पिच्छलः प्रोक्तः कटुस्तिक्तः कषायवान् । वर्ण्यः स्वर्यो लघुः सूक्ष्मो रूक्षो वातबलासजित् ॥ १२८ ॥ अन्यच्च-गुग्गुलुः प्रथितः स्निग्धः सरोष्णोऽथ कफानिलात् । वस्तिमेदोत्रणान्मेहशोफभूतविकारजित् ॥ १२९ ।। गुग्गुलुर्विषदस्तीक्ष्णः कषायः पिच्छलः कटुः । वर्ण्यः स्वर्यो लघुमेंदी स्निग्धो वातबलासजित् ।। १३० ॥ स नवो बृंहणो वृष्यः पुराणस्त्वतिलेखनः। राजनिघण्टौ चन्दनादिदशो वर्ग:गुग्गुलुर्यवनद्विष्टो भवाभीष्टो निशाटकः । जटालः कालनिर्यासः पुरो भूतहरः शिवः ॥ १८३ ॥ कौशिकः शांभवो दुर्गो यातुनो महिपाक्षकः । देवेष्टो मरुदेश्योऽपि रक्षोहा रूक्षगन्धकः ॥ १८४ ॥ दिव्यस्तु महिपाक्षश्च नामान्येतानि विंशतिः। गुणाः--गुग्गुलुः कटुतिक्तोष्णः कफमारुतकासजित् । कृमिवातोदरप्लीहशोफार्मोनो रसायनः ॥ १८५ ॥ राजनिघण्टौ चन्दनादिर्हादशो वर्ग: कणगुग्गुलुः । ( गुग्गुलुविशेषः ॥ १८ ॥ ___ गन्धराजः स्वर्णकणः सुवर्णः कणगुग्गुलुः । कनको वंशपीतश्च सुरसश्च पलंकृषः॥१८६ ॥ गुणाः--कणगुग्गुलुः कट्टष्णः सुरभिर्वातनाशनः । शूलगुल्मोदराध्मानकफनश्च रसायनः॥१८७ ॥ *गुग्गुलुशोधनम्-काथे हि दशमलस्य चोष्णे प्रक्षिप्य गुग्गुलुम् । आलोड्य वस्त्रपूतं तं चण्डांशुपरिशोषितम् ॥ १ ॥ घृताक्तं पिण्डितं कुर्याच्छुद्धिमायाति गुग्गुलुः । अन्यच्च-दुग्धे वा त्रिफलाक्वाथे दोलायत्रे विपाचितः । वाससा गालितो ग्राह्यः सर्वकर्मसु गुग्गुलुः ॥ २॥ For Private and Personal Use Only
SR No.020593
Book TitleRajnighantu Ssahito Dhanvantariya Nighantu
Original Sutra AuthorN/A
AuthorHarinarayan Aapte
PublisherAnandashram Mudranalay
Publication Year
Total Pages619
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy