SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ३ तृतीयो वर्गः ] राजनिघण्टु सहितः । ( ४७ ) राला । रालः सर्जरसः शालः क्षणः कलकलोद्भवः । ललनः शालनिर्यासो यक्षधूपोऽग्निवल्लभः ।। १२१ ॥ गुणाः- रालः स्वादुः कषायोष्णः स्तम्भनो व्रणरोपणः । विपादिभूतहन्ता च भग्नसंधानकृन्मतः ।। १२२ ।। राजनिघण्टौ चन्दनादिर्द्वादशो वर्ग: -- Acharya Shri Kailassagarsuri Gyanmandir ११९ रालः सर्जरसचैव शालः कनकलोद्भवः । ललनः शालनिर्यासो देवेष्टः शीतलस्तथा ।। १७६ || बहुरूपः शालरसः सर्जनिर्यातकस्तथा । सुरभिः सुरधूपश्च यक्षधूपोऽग्निवल्लभः ॥ १७८ ॥ कालः कललजः प्रोक्तो नाम्ना सप्तदशाङ्कितः । गुणाः —रालस्तु शिशिरः स्निग्धः कषायस्तिक्तसंग्रहः । वातपित्तहरः स्फोटकण्डूतिव्रणनाशनः ॥ १७८ ॥ (४८) कसीसम् । कासी धातुकासीस केसरं तप्तलोमशम् । गुणाः -- कासीसं तु कषायोष्णमम्लं वातवलासजित् । विपनेत्ररुजः श्वित्रं हन्ति कुष्ठव्रणानपि ॥ १२४ ॥ राजनिघण्टौ सुवर्णादित्रयोदशो वर्ग: कासीसं धातुकासीसं केसरं तप्तलोमशम् । शोधनं पांशुकं शीसं शुभ्रं सप्ताह्वयं मतम् ॥ १७९ ॥ गुणाः -- कासीसं तु कषायं स्याच्छिशिरं विषकुष्ठजित् । खर्जूकमिहरं चैव चक्षुष्यं कान्तिवर्धनम् ।। १८० ।। पुष्पकासीसम् । ( कासीसविशेषः ) ।। १७ ।। * द्वितीयं पुष्पकासीसं वत्सकं च मलीमसम् । * ह्रस्वं नेत्रौषधं योज्यं विपदं नीलमृत्तिका ॥ १२५ ॥ *कासीसभेदशोधनमारणानि - कासीसं वालुकं ह्येकं पुष्पदूर्वमथापरम् । गुर्वम्लगुरुधूमाभं सोष्णवीर्यविपापहम् ॥ वालुकं पुष्पकासीसं श्वित्रनं केशरञ्जनम् । For Private and Personal Use Only शोधनमारणे1 - सकृद्गङ्गाम्बुना क्लिन्नं कासीसं निर्मलं भवेत् । तुवरी सत्त्ववत्सत्त्वमेतस्यापि समाहरेत् । कासीसं शुद्धिमाप्नोति पुष्पैश्च रजसा स्त्रियाः । वलिना हतकासीसं कान्तं कासीसमारितम् ॥ १ ग. 'दिभनसंधान प्रज्ञोत्सादकरी मता ॥ १२२ ॥
SR No.020593
Book TitleRajnighantu Ssahito Dhanvantariya Nighantu
Original Sutra AuthorN/A
AuthorHarinarayan Aapte
PublisherAnandashram Mudranalay
Publication Year
Total Pages619
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy