SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धन्वन्तरीयनिघण्टुः [चन्दनादिःगुणाः-*कुङ्कम कटुकं तिक्तमुष्णं लेमसमीरजित् । व्रणदृष्टिशिरोरोगविपहृत्कायकान्तिकृत् ॥ १३ ॥ राजनिघण्टौ चन्दनादिदशो वर्गःज्ञेयं कुङ्कममग्निशेखरममुक्काश्मीरजं पीतकं काश्मीरं रुधिरं वरं च पिशुनं रक्तं शठं शोणितम् । बाढीकं घुसणं वरेण्यमरुणं कालेयकं जागुडं कान्तं वह्निशिखं च केसरवरं गौरं कराक्षीरितम् ॥ २१ ॥ __ गुणाः—कुङ्कुमं सुरभि तिक्तकटूणं कासवातकफकण्ठरुजानम् । मूर्धशूलविपदोषनाशनं रोचनं च तनुकान्तिकारकम् ॥ २२ ॥ राजनिघण्टौ चन्दनादिदिशो वर्गः-- तृणकुङ्कुमम् ( कुङ्कुमविशेषः ) ॥६॥ तृणकुङ्कुमं तृणास्रं गन्धितृणं शोणितं च तृणपुष्पम् । गन्धाधिकं तृणोत्थं तृणगौरं लोहितं च नवसंज्ञम् ॥ २३ ॥ गुणाः-तृणकुङ्कुमं कटूष्णं कफमारुतशोफनुत् । कण्डूतिपामाकुष्ठामदोषघ्नं भास्वरं परम् ॥ २४ ॥ (३) उशीरम् । उशीरं च मृणालं स्यादभयं समगन्धिकम् । रेणप्रियं वीरतरं वीरं वीरणमूलकम् ॥ १४ ॥ अन्यच्च-उशीरं वीरणीमूलं वालकं तृणवालुकम् । गुणाः-उशीरं शीतलं तिक्तं दाहक्लान्तिहरं च तत् । वातघ्नं ज्वरतृण्मेहनुद्रक्तं हन्ति योगतः ॥ १५ ॥ उशीरं स्वेददौर्गन्ध्यपित्तघ्नं स्निग्धतिक्तकम् । राजनिघण्टौ चन्दनादिदिशो वर्ग:उशीरममृणालं स्याजलवासं हरिप्रियम् । मृणालमभयं वीरं वीरणं समग * व. पुस्तकेऽयं श्लोको दृश्यते-- 'सेव्यं पितास्रतड्दाहस्वेददुर्गन्धिनाशनम् । वातघ्नं कुङ्कमं प्रोक्तं स्वादु पित्तविरोधिकृत् ' ॥ तथाच ग. पुस्तके श्लोको दृश्येते--- 'कुङ्कमं च भवेत्स्वादु विपाके शीतलं हिमम् । तथा श्लेष्महरं प्रोक्तं नातिपित्तकरं भवेत् ॥ कुङ्कम कटु तिक्तोष्णं वातश्लेष्मरुजं जयेत् । शिरोतिव्रणरोगन्नं विषनुत्कायकान्तिदम् ' ॥ ।। २ ग. व्रणप्रियं। For Private and Personal Use Only
SR No.020593
Book TitleRajnighantu Ssahito Dhanvantariya Nighantu
Original Sutra AuthorN/A
AuthorHarinarayan Aapte
PublisherAnandashram Mudranalay
Publication Year
Total Pages619
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy