SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra वीचन्द्र www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तद्वक्तुं शक्यते नैकजिह्वयाऽस्माभिरञ्जसा । साम्प्रतं तु मनाक् चित्तं निर्वृतं त्वत्प्रवृत्तितः ॥ ३१९ ॥ ततस्त्वं विरहोदग्रदवदग्धतनू निजौ । स्वसङ्गमसुधासारैः सिञ्चस्त्र पितरौ जवात् ॥ ३२० ॥ श्रुत्वेति वचनं साररचनं सचिवोदितम् । अकुण्ठोत्कण्ठया युक्तः सारसैन्यसमन्वितः || ३२१ ॥ भूपः कृतप्रयाणोऽयमविलम्बं पथि व्रजन् । क्रमेण पोतनं प्राप प्रमोदापूर्णमानसः || ३२२ || ( युग्मम् ). ज्ञात्वा तमागतं शत्रुञ्जयः संमुखमागमत् । पदातीभूय सोऽप्याशु पितुः पादाब्जमानमत् || ३२३ || निजाङ्गजाङ्गसंपर्क सुधारसनिषेकतः । मनो विरहसंतप्तं पितापि निवापयत् ॥ ३२४ ॥ तच्चरित्रं प्रभुत्वं तद् भ्रुवः स्वाङ्गवः पिता । श्रुत्वा दृष्ट्वा पुत्रवतां धुर्यात्मानममन्यत || ३२५ || राज्योचितमिति ज्ञात्वा पितामन्दप्रमोदतः । निवेश्य स्वपदेऽमेयमहोत्सवमवर्त्तयत् ॥ ३२६ ॥ स्वयं तु विषयभोगविरतो नृपपुङ्गवः । शीलन्धरगुरूपान्ते सङ्गत्यागं व्यधाद् बुधः || ३२७ ॥ स राजर्षिः क्रमात् कर्मकक्षमुन्मूल्य मूलतः । केवलश्रियमासाद्य सद्यः संप्राप निर्वृतिम् ॥ ३२८ ॥ नृपः कमलसेनोऽपि शुक्लपक्षशशीव सः । वर्द्धमानः क्रमादेकच्छत्रतामसृजद् भुवः || ३२९ || स योधः क्रशिताशेषविरोधः क्रोधरोधकृत् । न्यग्रोध इव शाखाभिः सूनुभिः प्रासरद् भुवि ॥ ३३० ॥ अन्यदा प्राकृषि प्राप्तरतिः सरिति राइ भुवः । रिरंसायै गतो दूरं तत्पूरः प्रासरद् भुवि ।। ३३१ ।। For Private and Personal Use Only चरितम् ॥
SR No.020581
Book TitlePruthvichandra Charitram
Original Sutra AuthorN/A
AuthorSatyaraj Gani, Mangalvijay
PublisherChandulal Punamchand
Publication Year1963
Total Pages155
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy