SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तां दृष्ट्वा तत्र केऽप्यागुर्वीक्ष्य तन्मिथुनं च ते । गत्वा स्वस्वामिनेऽशंसन् यानमारोहयत सतौ ॥ २०४॥ सुलोचनाहः पोतेशः प्रेक्ष्य तामृद्धिसुन्दरीम् । विषमैर्विशिखैरेष विषमेषोरविध्यत ॥ २० ॥ दध्यौ चायं किं जीवितेन किं यौवनेन चानेन । यदि मां स्वयमाश्लिष्यत्येषानोत्कण्ठिता कण्ठे ॥ २०६॥ यद्वा जीवति पत्यौ नैषा मत्काइक्षिणी कथमपि स्यात् । ध्यात्वेति निशीथेऽसौधर्म चिक्षेप वारिनिधौ॥२०७॥ प्रातः प्रियमपश्यन्ती रुदन्तीमृद्धिसुन्दरीम् । सुलोचनोऽथ मधुरैर्वचोभिस्तामबूबुधत् ॥ २०८ ॥ रोदनेन कृतं भद्रे.! त्वत्पतिः स गतो यदि । तद् गच्छतु स निःस्नेहो भविष्याम्येष ते प्रियः ॥ २०९ ॥ तत् स्वस्था भव मा शोचीःसर्वमेतद् वशे तव । एष भृत्योऽपि भूत्वा ते करिष्ये सवमीप्सितम् ॥ २१०॥ तदक्तमिति साऽऽकर्ण्य कर्णे क्रकचकर्कशम् । कृतावहित्था विज्ञाततच्चरित्राप्यचिन्तयत् ॥ २११ ॥ धिग मे रूपमनर्थस्य हेत्वेतद् यत्कृतेऽमुना । इदमाचरितं यद्वा कामिभिः क्रियते न किम् ? ॥ २१२ ॥ पति विना तदद्याहं निपतामि पयोनिधौ । परमहन्मते बालमरणं प्रत्यषिध्यत ॥ २१३ ॥ जीवन्ती सुकृतं कुर्वे दुर्लभो नृभवो भवे । अस्मादखण्डशीला च प्राप्नोमि जलधेस्तटम् ॥ २१४ ॥ शीलरक्षाकृते तावत् कुर्वे कालविलम्बनम् । यदाशापाशबद्धोऽतिक्रमेद् वर्षशतान्यपि ॥ २१५ ।। सुलोचनमवोचत् सा काऽधुनाऽसौ गतिर्मम?। तत् तीवो वारिधि पश्चात् करिष्यामो यथोचितम् ॥२१॥ 1000000000000300000000000€ For Private and Personal Use Only
SR No.020581
Book TitlePruthvichandra Charitram
Original Sutra AuthorN/A
AuthorSatyaraj Gani, Mangalvijay
PublisherChandulal Punamchand
Publication Year1963
Total Pages155
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy