SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 000000000000000000000000 क्रमेणाष्टविधं कर्म दग्ध्वा ध्यानमयाग्निना । निर्मलं केवलं प्राप्य निवृतोऽपि क्रमादसौ ॥ १५३ ॥ इति श्रुत्वा मुनेर्वाक्यं नृपः संविनमानसः । राज्ये शतबलं न्यस्यन् व्रतार्थ यावदुत्थितः ॥ १५४ ॥ तावच्छतवलोऽवोचत् ताताहमपि संयमम् । त्वया सहाङ्गीकर्ताऽस्मि निश्चयोऽयं ममाभवत् ।। १५५ ॥ (युग्मम्.) तन्निर्बन्धमथावत्य स्वराज्ये गिरिसुन्दरम् । यौवराज्ये रत्नसारमभिषिच्य महामहम् ॥ १५६ ॥ श्रीबलशतबलावप्युभौ जातो महामुनी । असिधाराग्रनिशितं पालयामासतुव्रतम् ॥ १५७ ॥ अथान्यदा राज्यरमां भुआनो गिरिसुन्दरः । स्वप्ने कल्पद्रशाखाग्रासीनमात्मानमैक्षत ॥ १५८ ॥ प्रत्यूषे मङ्गलातोधैः प्रबुद्धोऽथ घराधवः । महत् स्वप्नफलं ध्यायन प्रापोद्याने जिनालयम् ॥ १५९ ॥ नत्वार्हन्तं बहिश्चततले वीक्ष्य महामुनिम् । पञ्चधाभिगमनत्वाशृणोत् तद्धर्मदेशनाम् ॥ १६०॥ संवेगरङ्गमापन्नः प्रोवाच धरणीधवः । रत्नसारकुमारं तं व्रताभिप्रायमात्मनः ॥ १६१ ॥ सोऽपि प्रोत्साहयामास तं स्वयं व्रतकाक्षया । निवेश्य राज्ये सचिवानुज्ञया सुरसुन्दरम् ॥ १६२ ।। जयनन्दगुरूपान्ते प्रव्रज्योभौ यथाविधि । अवेयके नवमकेभूतामेतावुभौ सुरौ ॥ १६३ ॥ इति पं० श्रीसत्यराजगणिविरचिते श्रीपृथ्वीचन्द्रमहाराजर्षिचरिते गिरिसुन्दररत्नसार महर्षिचरितमष्टमं भवग्रहणम् । 500GOOGOCOO600660000030000 For Private and Personal Use Only
SR No.020581
Book TitlePruthvichandra Charitram
Original Sutra AuthorN/A
AuthorSatyaraj Gani, Mangalvijay
PublisherChandulal Punamchand
Publication Year1963
Total Pages155
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy