________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( पारमा० ) प्रथमं 'ज्ञानावरणं' ज्ञायते परिच्छिद्यते वस्त्वनेनेति ज्ञानं सामान्य विशेषात्मके वस्तुनि विशेषग्रहणात्मको बोधः, आव्रियतेऽनेनेत्यावरणम्, मिथ्यात्वादिसचिवजीव व्यापाराहुतकर्मवर्गणान्तःपाती विशिष्टपुद्गलसमूहः । ज्ञानस्यावरणं ज्ञानावरणम् १ । द्वितीयं पुनः 'दर्शनस्यावरणम्' दृश्यतेऽनेनेति दर्शनं सामान्यविशेषात्मके वस्तुनि सामान्यग्रह - णात्मको बोधः, तस्यावरणं दर्शनावरणम् २ । तृतीयं च ' वेदनीयं' वेद्यते आह्रादादिरूपेणानुभूयते यत्तद् वेदनीयम् । यद्यपि च सर्वे कर्म वेद्यते तथाऽपि पङ्कजादिशब्दवत् वेदनीयशब्दस्य रूढिविषयत्वात्सातासातरूपमेव कर्म वेदनीयम्, इत्युच्यते, न शेषम् ३ । तथा चतुर्थं च 'मोहनीयं' मोहयति सदसद्विवेकविकलं करोत्यात्मानमिति प्रवचनीयादित्वात्कर्तर्यनीयः ४ । ५ । 'आयुः' अर्थात्पञ्चमम् एति गच्छति प्रतिबन्धकतां नारकादिकुगतेर्निष्क्रमितुमनसो जन्तोरित्यायुः । यद्वा | एति गच्छति गत्यन्तरमनेनेत्यायुः ५ । 'नाम' अर्थात् षष्ठम्, नामयति गत्यादिपर्यायानुभवनं प्रति प्रवणयति जीवमिति नाम ६ । 'गोत्र' अर्थात्सप्तमम्, गूयते शब्दयते उच्चावचैः शब्दैरात्मा यस्मात्तद् गोत्रम् ७ । अष्टमकमन्तरायकं कर्म भवति । जीवं दानादिकं चान्तरा एति न जीवस्य दानादिकं कर्तुं ददातीत्यन्तरायम्, अन्तरायमेवान्तरायकम् । आर्षत्वाद् यकारस्येकारः ८ । मूलप्रकृतय एताः । अत्र च ज्ञानदर्शनरूपोऽयमात्मेत्यन्तरङ्गत्वादादावेव तदावरणोपादानम् । समानेऽपि चैतदन्तरङ्गत्वे ज्ञानोपयोगे एव सर्वलब्धीनामवाप्तिः । यदुक्तम् — “सखाओ लद्धीओ सागारोवउत्तस्स ।” इति । अतो ज्ञानस्य प्राधान्यमिति तदावरणस्य प्रथमतः । तदनु दर्शनावरणस्य । ततः केवलिनोऽप्येकविधबन्धकस्य | सातबन्धोऽस्तीति व्यापित्वाद्वेदनीयस्य । ततोऽपि प्रायः संसारिणामिष्टानिष्टापत्तितो रागद्वेषौ तद्रूपं च मोहनीयमिति
For Private And Personal Use Only