SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कर्मवि टीकाद्वयो पाक: | पेतः॥ ॥ ५ ॥ CALNASAAR क्षिताः शृणुतेति विलम्बपरिहारार्थम् । इति गाथार्थः ॥४॥ वचसः क्रमवर्तित्वात्प्रथमं मूलप्रकृतीः प्रतिपादयतिपढमं नाणावरणं, बीयं पुण दंसणस्स आवरणं तइयं च वेयणीयं, तहा चउत्थं च मोहणीयं ॥५॥ आऊ नाम गोय, अट्ठमयं अंतराइयं होइ । मूलपयडीउ एया, उत्तरपयंडीउ कित्तेमि ॥६॥ व्याख्या-'प्रथम' आचं 'ज्ञानावरणं' ज्ञानस्य मतिज्ञानादेरावरणमाच्छादनं क्रियते येन कर्मणा तज्ज्ञानावरणम् । द्वितीयं पुनः दर्शनस्यावरणं' चक्षुर्दर्शनादेः स्वरूपतिरोधायकम् । तृतीयं च वेदनीय' वेद्यते येन सातासातखरूपं. कर्मणा तबेदनीयं भवति । चतुर्थ तु मोहनीयमेव, तुशब्दस्यैवकारार्थत्वात् । मोहयतीति कृत्वा मोहनीयम् । इति गाथार्थः॥५॥ आयुः कर्म पश्चमं जीवस्य चतुर्गतिष्ववस्थितिकारणम् । जीवमनेकरूपैरुच्चावचैर्नामयतीति कृत्वा नाम, तच्च षष्ठम् । गां वाचं त्रायतीति गोत्रम्, उच्चैर्गोत्रादिभेदभिन्नं सप्तमम् । अष्टमकमन्तरायिकं भवति । अन्तरायं दानादिविघ्नहेतु)कर्म, अन्तराये भवं अन्तरायिकम् । अन्तरायखरूपं वाऽन्तरायिकं दानलाभादिभेदभिन्नम् । मूलप्रकृतयः' आद्यप्रकृतयः 'एताः' उक्तलक्षणाः। 'उत्तरप्रकृतयः' तासामेव मूलप्रकृतीनां भेदान्तराणि किञ्चिद्विशेषकृतानि । ताश्च- 'कीर्तयामि' संशब्दयामि । इति गाथादयार्थः॥६॥ उक्ता मूलप्रकृतिभेदाः, साम्प्रतमुत्तरप्रकृतिभेदानाह गाथाबयेन ॥५॥ For Private And Personal Use Only
SR No.020557
Book TitlePrachin Karmgranth Satik
Original Sutra AuthorN/A
AuthorJain Atmanand Sabha
PublisherJain Atmanand Sabha
Publication Year1917
Total Pages476
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy