SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ फिटसूत्राणि॥ [३, १०.११.१२.१३. कर्दमादीनां च ॥१०॥ सि. कौ ॥ आदिद्वितीयं वोदात्तम् ॥ ल° श° ॥ कर्दमादिराकृतिगणः ॥ फि• वृ०॥ कर्दमादीनां वा ॥ कर्दमादीनामादिरुदात्तो भवति द्वितीयं वा। कर्दमः कुलटा उदकं गान्धारिः॥ सुगन्धितेजनस्य ते वा ॥ ११॥ सि. कौ ॥ आदिद्वितीयं तेशब्दश्चेति त्रयः पर्यायेणोदात्ताः । सुग न्धितेजनाः। ३॥ लश ॥ त्रय इति । केचित्तु सुगन्धितेजनस्य चेति सूत्रं पठन्ति । आ दिद्वितीयो वेत्यनुवर्तयन्ति । अयं क्लीवो ऽपि ॥ फि° वृ०॥ सुगन्धितेजनस्य च ॥ सुगन्धितेजनशब्दस्खादिरुदात्तो भवति द्वितीयं वा। सुगन्धितेजनम् । २॥ नपः फलान्तानाम् ॥ १२ ॥ सि. कौ॥ आदिदितीयं वोदात्तम् । राजादनफलम् ॥ ल श॥ नपुंसकस्य फलशब्दान्तस्यादिवितीयं वेत्यर्थः । केचित्तु ले फो नप इत्यस्य स्थाने पठन्ति । नबिति नपंसकम् । लशब्दे परे क्लीवस्य फशब्द उदात्तः। फलं सफलमित्युदाहरन्ति । अन्ये तु फाशब्दस्येति व्याख्याय सफालमित्युदाहरन्ति ॥ फि• वृ०॥ ले फो नपः ॥ लशब्दे परतः फशब्द उदात्तो भवति नपो नपुंसकस्य । किंफलं श्रीफलं दासीफलं वधूफलम् । ल इति किम् । फाएटम् । फ इति किम् । कलिलम् । नप इति किम् । दासीफलो वृक्षः॥ यान्तस्यान्यात्पूर्वम् ॥ १३ ॥ सि० को॥ कुलायः॥ सश॥ कुलाय इति । लघावन्ते । २. १९. । इत्यस्य प्रवृत्तावपि न For Private And Personal Use Only
SR No.020553
Book TitlePhit Sutrani
Original Sutra AuthorN/A
AuthorFranz Kielhorn
PublisherLeipzig
Publication Year1866
Total Pages102
LanguageSanskrit, English
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy