SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १५ २, १५.१६.१७.] ॥ फिटसूत्राणि ॥ सि. कौ ॥ ग्रामः सोमः यामः॥ ल° श॥ ग्रामादिराकृतिगणः॥ फि° वृ०॥ ग्रामादीनामादिरुदात्तो भवति। ग्रामः पुरुषः शूरः वृद्धः॥ लुबन्तस्योपमेयनामधेयस्य ॥ १६॥ सि. कौ ॥ चञ्चेव चञ्चा। स्फिगन्तस्येति पाठान्तरम् । स्फिगिति लुपः प्राचां संज्ञा ॥ ल श॥ संज्ञायामुपमान। पा.६.१. २०४. । इत्यनेनम् समानार्थमे तत् । लुबिति किम् । अग्निर्माणवकः । उपमेयेति किम् । वरणाः । अदूरभवश्च । पा. ४. २. ७०. । इत्यणो वरणादिभ्यश्च । पा. ४. २. ८२. । इति लुप् । नामेत्यादि किम् । शुनक दवायं वृकः । देवपथादेराकृतिगणवात्कनो लुपि शनक उपमेये वर्तते न तु तस्येयं संज्ञा ॥ फि वृ०॥ स्फिगन्तस्यौपम्यनामधेयस्य ॥ स्फिगिति लुपो नाम । स्फिगन्तस्य लुबन्तस्यौपम्यनामधेयस्थादिरदात्तो भवति । पिशाच वायं पिशाचः। कुक्कुट वायं कुक्कुटः। सूकर वायं सूकरः। गर्दभ वायं गर्दभः। स्फिगन्तस्येति किम् । अग्निर्माणवकः । गौवाहीकः। औपम्येति किम् । वरणाः। नामधेयस्येति किम् । कुक्कुट वायं मयूरः॥ न वक्षपर्वतविशेषव्याघ्रसिंहमहिषाणाम्॥१७॥ सि को॥ एषामुपमेयनाम्नामादिरुदात्तो न । ताल व तालः । मेरु ..रिव मेरुः । व्याघ्रः । सिंहः । महिषः॥ ल श॥ यद्यपि फिटसूत्रवृत्ती न व्याघ्रमहिषसिंहवृक्षपर्वतानामिति पद्यते तथापि वृक्षपर्वतांशे विशेषाणामेव ग्रहणमिष्टमिति तदपठितमेव सूत्रे पठितम् । सर्वत्र विशेषपदान्वयाभाव बोधनाय व्युत्क्रमः कृतः॥ फि. वृ०॥ न व्याघ्रमहिषसिंहवृक्षपर्वतानाम् ॥ व्याघ्र महिष सिंह वृक्ष पर्वत इत्येतेषां स्फिगन्तानामौ पन्यनामधेयानामादिरुदात्तो न भवति । व्याघ्र स्वायं Abhandl. d. DMG. IV, 2. For Private And Personal Use Only
SR No.020553
Book TitlePhit Sutrani
Original Sutra AuthorN/A
AuthorFranz Kielhorn
PublisherLeipzig
Publication Year1866
Total Pages102
LanguageSanskrit, English
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy