SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १, २१. २२.२३.२४.] ॥ फिटसूत्राणि ॥ का बहुलिकेति कृत्तिकापर्यायौ । अत्र पक्षे कृत्तिकेत्यादेः प्रयोजनं मघा विशाखेत्यादि ॥ फि. वृ०॥ कवर्गपूर्वो य आप्तद्विषयस्य नक्षत्रस्थान्त उदात्तो न भवति कृत्तिकाख्या चेत् । कृत्तिका आर्यिका बहुलिका। कुपूर्वस्येति किम् । बहुला। कृत्तिकाख्या चेदिति किम् । मघा। आख्याग्रहणं किम् । कृत्तिकासु या जाता माणविका कृत्तिका॥ घृतादीनां च ॥ २२ ॥ सि की॥ अन्त उदात्तः । घृतं मिमिक्षे। ऋ० वे. २. ३. ११. । पाच तिगणोऽयम् ॥ लश ॥ आकृतीति। वराहमिन्द्र एमुषम् । ऋ० वे० ८.६६. १०. । इत्यादावन्तोदात्तदर्शनाद्वराहशब्दो ऽप्यत्र बोध्य : ॥ फि० वृ०॥ घृतादीनामन्त उदात्तो भवति। घृतं रजतं श्वेतं सप्त अष्टौ जातरूपमिति घृतादयः॥ ज्येष्ठकनिष्ठयोर्वयसि ॥ २३॥ सि की ॥ अन्त उदात्तः स्यात् । ज्येष्ठ आह चमसा। कनिष्ठ आह च तुरः । ऋवे. ४. ३३. ५.। वयसि किम्। ज्येष्ठः श्रेष्ठः । कनिष्ठी ऽल्पिष्ठः । इह नित्त्वादाचुदात्त एव । पा० ६. १. १९७॥ ल° प० ॥ ज्येष्ठकनिष्ठयोः । वृद्धयुवशब्दयोWकन्नादेशौ। प्रशस्याल्पश ब्दयोस्तावादेशो यदा तदा प्रत्युदाहरणम् ॥ फि वृ०॥ ज्येष्ठ कनिष्ठ इत्येतयोर्वयस्यभिधेये ऽन्तोदात्तो भवति। ज्येष्ठः कतरो युवयोः कनिष्ठ : कतरः। वयसीति किम । ज्येष्ठोऽयं गर्दभः । भारोबहने समर्थः । कनिष्ठोऽयम्। अशक्त इत्यर्थः ॥ विल्वतिष्थयोः स्वरितो वा ॥ २४ ॥ सि० की॥ अनयोरन्तः स्वरितो वा स्यात् । पक्ष उदात्तः ॥ लश ॥ पक्ष उदात्त इति । उदाग्रहणानुवृत्तेरिति भावः ॥ फि वृ०॥ विल्वतिष्थयोवा स्वरितः विल्व तिष्य इत्येतयोवी स्वरितो ऽन्तो भवति । विल्वः तिष्यः ॥ इति फिटसूत्रवृत्ती प्रथमः पादः ॥ ॥ इति फिटसूत्रेषु प्रथमः पादः ॥ For Private And Personal Use Only
SR No.020553
Book TitlePhit Sutrani
Original Sutra AuthorN/A
AuthorFranz Kielhorn
PublisherLeipzig
Publication Year1866
Total Pages102
LanguageSanskrit, English
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy