SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ फिटसूत्राणि ॥ [१, ११. १२. १३. १४. फि° वृ०॥ छन्दसीति वर्तते । कृष्णशब्दस्य छन्दसि विषये ऽन्त उदात्तो भवति मृगाख्या चेन्न भवति। कृष्णानां व्रीहीणाम्। कृष्णो नोनाव वृषभो यदीदम। ऋ वे १. ७९.२.। छन्दसीत्येव । कृष्णो वृषभः। अमृगाख्येति किम् । कृष्णो मृगः । आख्याग्रहणं किम् । कृष्णो महिषः ॥ वा नामधेयस्य ॥१२॥ सि कौ ॥ कृष्णस्येत्येव । अयं वां कृष्णो अश्विना। ऋवे. ८. ७४. ३. । कृष्ण ऋषिः॥ ल° श॥ अन्तोदात्तत्वं वा। पक्ष द्युदात्तत्वम् ॥ फि• वृ०॥ कृष्णस्य नामधेयस्य वान्त उदात्तो भवति । कृष्णो ना मायम् ॥ शुक्लगौरयोरादिः ॥ १३ ॥ सि को ॥ नित्यमुदात्तः स्यादित्येके। वेत्यनुवर्तत इति तु युक्तम् । सरो गौरो यथा पिब । ऋ वे० ८.४५. २४. । इत्यवान्तोदात्तद र्शनात् ॥ लश ॥ नामधेयस्येति वर्तते । तेनानामधेययोरन्तोदात्तत्वमेव ऋ जेन्द्र । उ॰ २. २८. । इत्युणादिसूत्रनिपातितान्तोदात्तत्व कस्य शुक्रशब्दस्य लवे शुक्ल शब्दव्युत्पत्तेरिति बोध्यम् ॥ फि वृ०॥ नामधेयस्येति वर्तते। शुक्ल गौर इत्येतयोनामधेययोर्वादि रुदात्तो भवति। शुल्लो नामायम् । गौरो नामायम् । नामधेयस्येत्येव । शुक्लः पटः । गौरः पुरुषः॥ अङ्गुष्ठोदकवकवशानां छन्दस्यन्तः ॥१४॥ मि. को ॥ अङ्गुष्ठस्य स्वाङ्गानामकुर्वादीनाम् । ३. ३. । इति द्वितीयस्थो दात्तवे प्राप्ते ऽन्तोदात्तार्थ आरम्भः। वशाग्रहणं नियमा र्थम् । छन्दस्येवेति । तेन लोक आद्युदात्ततेत्याहुः ॥ ल' शअन्त इति वादिग्रहणानुवृत्तिशङ्कानिवारणार्थम् । उदकस्य कर्दमादित्वादाद्यद्वितीययोः । ३. १०. । पर्यायेण प्राप्ते। वकस्य प्राणिनां च कुपूर्वाणाम्।२.७.। इत्याद्युदात्तत्वे प्राप्ते। तेन लोक इति। नियमकरणसामादिति भावः । वशाशब्दश्च वशेः पचाद्यचि टापीति तात्पर्यम् ॥ For Private And Personal Use Only
SR No.020553
Book TitlePhit Sutrani
Original Sutra AuthorN/A
AuthorFranz Kielhorn
PublisherLeipzig
Publication Year1866
Total Pages102
LanguageSanskrit, English
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy