SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobairth.org Acharya Shri Kailassagarsuri Gyanmandir न्द्रोऽवोचत्-राजन् ! जीवत्यस्य पुत्रः' । 'कथं ? कुत्रास्तीति राजादिभिः पृष्टे भूमेस्तं बालं जीवन्तं निष्कास्य | A निधानमिवादर्शयत् । ततो विस्मितैः सर्वैरपि 'स्वामिन् ! कस्त्वं ? कश्चायं?' इति पृष्टे सोऽवदत्-राजन् ! धरणेन्द्रोऽहं नागराजा, कृताष्टमतपसोऽस्य महात्मनः साहाय्यार्थमागतोऽस्मि । 'कथं जातमात्रेणानेनाष्टमं कृतमिति पृष्टे सोऽवदत्-राजन् ? अयं हि प्राग्भवे कश्चिद्वणिकपुत्रो बाल्यादेव मृतमात्रिक आसीत्, सच विमात्राऽत्यन्तं पीड्यमानो मित्रायाकथयत्खदुःखं । तेनापि त्वया प्रागजन्मनि किञ्चित्तपोन कृतं, तेनैवं पराभवं लभसे' इत्युक्तं ततोऽसौ यथाशक्तिस्तपस्युद्यत 'आगामिपर्युषणायामष्टमं करिष्यामीति कृतनिश्चयस्तृणकुटीरे सुष्वाप । तदा लब्धावसरया विमात्रा पार्श्वस्थप्रदीपनकादग्निकणस्तत्र निक्षिप्तः, तेन ज्वलिते कुटीरके समृतोऽष्टमध्यानादयं श्रीकान्तश्रेष्ठिसुतो जातः। ततोऽनेन प्राग्भवचिन्तितमष्टमं तपः साम्प्रतं कृतं, तदसौ महापुरुषो लघुकर्माऽस्मिन्नेव भवे शिवङ्गमी, अतो यत्नेन पालनीयः, भवतामपि महते उपकाराय भविष्यति इत्युक्त्वा खहारं तत्कण्ठे निक्षिप्य खस्थानं गतो नागराजः। ततः स्वजनैः श्रीकान्तस्य मृतकार्ये कृते तस्य नागकेतुरिति नाम दत्तं । स च बाल्यादपि जितेन्द्रियः शुद्धश्रावकोऽभूत् । अन्यदा कश्चिदचौरोऽपि चौर-| कलङ्केन हतो राज्ञा, स चार्तध्यानेन मृत्वा व्यन्तरो जातः, ततोऽवधिना ज्ञातवृत्तान्तः सः समग्रनगरविघातायैकां महतीं शिलां विकुळ नृपं च पादप्रहारेण भुवि निपात्य नभस्थो दुर्वचसा जनं भापयामास । तदा स नागकेतुः कथं जीवनिमं चतुर्विधसङ्घजिनचैत्यादि विध्वंसं पश्यामीति चिन्तयन् प्रासादशिखरमारुह्य पतन्तीं For Private And Personal Use Only
SR No.020546
Book TitleParyushana Kalpsutram
Original Sutra AuthorN/A
AuthorKesharmuni, Buddhisagar Gani
PublisherJinduttsuri Gyanbhandar
Publication Year1942
Total Pages435
LanguageSanskrit
ClassificationBook_Devnagari, Paryushan, & agam_kalpsutra
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy