SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobelirth.org Acharya Shri Kailassagarsuri Gyanmandir पर्युषणा० कल्पार्थबोधिन्याः व्या०६ सूत्रं १३२ प्रभुनिर्वाणे दीपालिकोत्सवः, पाक्षिकचर्चा ॥११५॥ चउमासयपडिकमणं, पक्खियदिवसम्मि चउबिहो संघो । नवसयतेणउएहिं, आयरणं तं पमाणं ति ॥४॥” एतद्गाथाचतुष्के "चउमासयपडिकमणं, पक्खियदिवसम्मि" इति यद्भणितं, तेन स्पष्टं ध्वन्यते यत्पाक्षिकं आदितोऽपि चतुर्दश्यामासीत् , इत्यमेव बर्थसङ्गतिर्विहिता श्रीमजयसोममहोपाध्यायैस्तथाहि-"एतन्मूलं तु 'विक्रमार्कात्सपञ्चाशच्छतत्रयीमितवर्षे चतुर्दशीपक्षो बभूवेति केषुचितर्णपट्टावलीपत्रेषूपलभ्यते, ततश्चैता गाथाः केनचित्तत्पक्षीयेण गीतार्थेन कृता इति विभाव्यते, 'चउमासगपडिक्कमणं, पक्खियदियहम्मी'ति वाक्येन साकं सङ्गच्छते चेत्थं" इति पौषधषट् वृत्तिः पत्र ७। ततः कथं 'अमावास्यायां पाक्षिकदिनत्वा'दित्युक्तिः सङ्गच्छते ? इति चेच्छृणु-प्रथमं त्वेतद्गाथाचतुष्कस्य सर्वथैवाभावस्तीर्थोद्गारिके, "एतद्गाथाया मूलतया कल्पितेष्वपि तीर्थोद्गारादिष्वदर्शना"दिति श्रीमजयसोममहोपाध्यायविहितपौषधषट्त्रिंशिकावृत्तिवाक्यात्तीर्थोद्गारिकप्रत्यवलोकनेऽनुपलब्धत्वाच्च । नन्वेवं तर्हि श्रीजिनप्रभसूरिवरायः समर्थसाक्षरैः कथं प्रमाणतयोपन्यस्तमेतद्गाथाचतुष्कमित्याशङ्का तु "न च 'जिनप्रभाचार्यैरप्येषा समालम्बिता' इति वाच्यं, तत्पूर्ववर्तिकल्पविषमपदनिरुतकृविनयेन्दुसूरिकृतं 'वायणंतरे पुण नवसयतेणउएहिं' इत्येतत्पदव्याख्यानमुपजीव्य तैस्तत्पदव्याख्याने तथैव 'तेणउयणवसएहिं' इत्यादिगाथाकदम्बकस्य लिखितत्वात्” इति पौषधषट्त्रिंशिकावृत्तिगतेन श्रीमजयसोममहोपाध्यायवाक्येनैवापाकृता भवति । | अन्यच्च-पाक्षिकं पञ्चदश्यामेव सार्वदिकं, तथैव युक्त्याऽऽगमेनापि च प्रतीयमानत्वात् । तत्र तावद्युक्त्या-यथा दिवसान्ते दैवसिकं, रात्र्यन्ते च रात्रिकं, तथा पक्षान्त एव पाक्षिकं युक्तं । न चैतदनागमिकं, तथैवागमादिना प्रतिपाद्यमानत्वात्तथाहि-"दिवसस्यान्ते देवसिकं, रात्रेरन्ते रात्रिकं, पक्षस्यान्ते पाक्षिक, चतुर्णा मासानामन्ते चातुर्मासिकं, संवत्सरस्यान्ते सांवत्सरिकं" इति ॥११५॥ For Private And Personal Use Only
SR No.020546
Book TitleParyushana Kalpsutram
Original Sutra AuthorN/A
AuthorKesharmuni, Buddhisagar Gani
PublisherJinduttsuri Gyanbhandar
Publication Year1942
Total Pages435
LanguageSanskrit
ClassificationBook_Devnagari, Paryushan, & agam_kalpsutra
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy