SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra •*•*•*•*••*• www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तणं समणे भगवं महावीरे अणगारे जाए, इरियासमिए भासा समिए एसणासमिए आयाग-भंडमत्त - निक्खेवणासमिए उच्चार| पालको भवं भ्रमन्नयमेव गोपः सञ्जातः । ततः खामी मध्यमापापायां गतस्तत्र सिद्धार्थवणिग्गेहे खरकवैद्यो भिक्षार्थमागतं प्रभुं सशल्यं ज्ञातवान् । ततो वणिजाय ज्ञापिते सवैद्यो वणिगुद्याने गत्वा सण्डासकाभ्यां ते शलाके निर्गमयति स्म । तदाकर्षणे च खामिना तथाऽऽरादिर्मुक्ता, यथा सकलमप्युद्यानं महाभैरवं जातं, तत्र देवकुलमपि कारितं जनैः । प्रभुश्च संरोहिण्यौषध्या नीरोगो जातः, वैद्यवणिजौ खर्गे जग्मतुः, गोपः सप्तमं नरकं, एवं चोपसर्गा गोपेन प्रारब्धा गोपेनैव च निष्ठिताः । एतेषु जघन्यमध्यमोत्कृष्टविभागः पुनरेवं"शीतं माघनिशायां य द्वितेने कटपूतना । जघन्येषूपसर्गेषु, तदुत्कृष्टं प्रभोरभूत् ॥ १ ॥” “कालचक्रं मध्यमेषू-त्कृष्टं दुष्टसुरेरितम् । उत्कृष्टेषूत्कृष्टतमं, शल्यप्रोद्धरणं पुनः ॥ २ ॥ ” १२१ - यत एवं परीषहान् सहते ततः श्रमणो भगवान् महावीरः 'अनगारो' मुनिर्जातः, स च 'ईर्यायां' गमनागमनप्रवृत्तौ 'समितः सम्यक् प्रवृत्तः, एवं भाषायां समितः 'एषणायां' निर्दोषभिक्षागवेषणे समितः, आदाने 'भाण्डमात्रस्य' वस्त्राद्युपकरणजातस्य यद्वा 'भाण्डस्य' वस्त्रादेर्मृन्मय भाजनस्य वा 'मात्रस्य ' पात्रविशेषस्य च, 'निक्षेपणे' मोचनेऽपि च तस्य, 'समित: ' सुप्रत्युपेक्षणादिना सम्यक् प्रवृत्तः, तथा 'उच्चारः' पुरीषं 'प्रस्रवणं' मूत्रं 'खेलो' निष्ठीवनं 'जल्लो' देहमलः 'सिङ्घाणो' नासिकामलः, एतेषां परिष्ठापने समितः, शुद्धस्थण्डिलाद्याश्रयणात् । एतच्चान्त्य समितिद्वयं प्रभोर्भाण्डसिङ्घाणाद्यसम्भवेऽपि नामाखण्डनार्थमुक्तं । एवं For Private And Personal Use Only
SR No.020546
Book TitleParyushana Kalpsutram
Original Sutra AuthorN/A
AuthorKesharmuni, Buddhisagar Gani
PublisherJinduttsuri Gyanbhandar
Publication Year1942
Total Pages435
LanguageSanskrit
ClassificationBook_Devnagari, Paryushan, & agam_kalpsutra
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy