SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobairth.org Acharya Shri Kailassagarsuri Gyanmandir दीक्ष्यते । अचित्तद्रव्यं वस्त्रादिकं, मिश्रद्रव्यं सोपधिकः शिष्यो न गृह्यते । क्षेत्रतो भिक्षाचर्या-देवगुरुवन्दनाद्यौत्सर्गिके कार्य सक्रोशं योजनं, ग्लानवैद्यौषधाद्यापवादिके तु चत्वारि पञ्च वा योजनानि यावद्गमनागमनप्रमाणकरणं । कालतो मर्यादीकृतं कालं यावन्नियतावस्थाननियमः, स च द्विविधः-सालम्बनः-सकारणो निरालम्बन:-कारणरहितश्च, निरालम्बनोऽपि द्विभेदो-जघन्य उत्कृष्टश्च, तत्र जघन्यस्तावत्सांवत्सरिकप्रतिक्रमणात्प्रारभ्य कार्तिकचातुर्मासिकं यावच्चन्द्रवर्षे सप्ततिदिनमानोऽभिवर्द्धिते च शतदिनप्रमितः। द्विविधोऽप्ययं निरालम्बनः स्थविरकल्पिकानां, जिनकल्पिकानां तु एको निरालम्बनश्चातुर्मासिक एव । सालम्बन:-कारणिकस्तु कृताषाढमासकल्पे क्षेत्रेऽनन्तरमेव चतुर्मासकं विधाय संलग्नमेव मासकल्पकरणे उत्कृष्टः पाण्मासिका, यदुक्तं-"इय सत्तरि जहण्णा, असिइ णउई वीसुत्तरसयं च । जइवासे मग्गसिरे, दसराया तिन्नि उक्कोसा ॥१॥ काऊण मासकप्पं, तत्थेव ठियाणऽतीत मग्गसिरे । सालंबणाण छम्मा-सिओ उ जेदुग्गहो होइ ॥२॥" अयमपि स्थविरकल्पिकानामेव । भावतः क्रोधादीनां विवेकः (त्यागः) समित्यादिषु चोपयोगः। योग्यक्षे. त्राद्यभावे त्वपवादतः पञ्चपञ्चदिनवृद्ध्या चन्द्राभिवर्द्धितवर्षयोः क्रमेण दशपञ्चकान् चतुःपञ्चकांश्चातिक्रम्य यावाद्रपदीयायां श्रावणीयायां चामावास्यायां भवति, यदुक्तं-"आसाढपुण्णिमाए पजोसविंति एस उस्सग्गो, सेसकाले पजोसविताणं सबो अववाओ" इति निशीथचूर्णि-दशमोद्देशके । For Private And Personal Use Only
SR No.020546
Book TitleParyushana Kalpsutram
Original Sutra AuthorN/A
AuthorKesharmuni, Buddhisagar Gani
PublisherJinduttsuri Gyanbhandar
Publication Year1942
Total Pages435
LanguageSanskrit
ClassificationBook_Devnagari, Paryushan, & agam_kalpsutra
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy