________________
Shri Mahavir Jain Aradhana Kendra
www.kobafrth.org
Acharya Shri Kailassagarsuri Gyanmandir
पर्युषणा कल्पार्थबोधिन्याः व्या० १
पीठिका कल्पदशके पर्युषणाकल्प:
॥४॥
ऽपि गृहिज्ञातमानानां शतमेव असा 'अतिरिक्ता' साचित
मेव वक्तुमुचितं स्यात् । न हि गृहिज्ञाताद्भिन्नमुपलभ्यते कापि वार्षिकपर्वविधानम् । अतोऽनागमिकमसङ्गतं च पर्युषणाशब्दस्य 'सामस्त्येन वसनं वार्षिक पर्व च' इत्येतदर्थद्वयकरणं । ननु अर्थद्वयविधानमन्तरेण तीर्थङ्कराणामपि संवत्सरप्रतिक्रान्त्यादिकृत्यकरणप्रसङ्गः स्यात्, न चैतदिष्टं, इति चेन्मैवं, तेषां हि कल्पातीतत्वात्कथं प्रतिक्रमणादिक्रियायाः करणत्वं सम्भाव्यते? तेष्विति विचारय। न च "अभिवड्डियम्मि वीसा" इत्यादिपाठो गृहिज्ञातमात्रापेक्षिक इति वाच्यं, शास्त्रेषु सर्वत्रापि गृहिज्ञाताज्ञातयोरेव पर्युषणाभेदयोदृश्यमानत्वात्, न च काप्यायाति गन्धोऽपि गृहिज्ञातमात्रायाः। यदा च प्राविशत्या दिनैः सांवत्सरिककृत्यविशिष्टा गृहिज्ञातपर्युषणा बभूव तदाऽपि पाश्चात्यानां दिनानां शतमेव बभूव, ततः कथं साम्प्रतं दृष्यते तत् । न च प्रथमो मासोऽधिक इत्यपि वक्तुमुचितं, यतः “अइरित्ता अहिगमासा-'अतिरिक्ता' उचितकालात्समधिका अधिकमासकाः प्रतीताः" इति दशवकालिकनियुक्तिवृत्तिवाक्याद् द्वितीय एवाधिकः, न हि उचितकालात्समधिकत्वं प्रथमे जाघटीति, किं प्रथम एव पुत्रोऽधिक इति वक्तुं शक्यते केनापि ? इति विचारय । अतः सिद्धं-साम्प्रतं लोकरूढ्या यः कोऽपि मासो वर्द्धतां चातुर्मासिकदिनात्पश्चाशद्दिनेषु व्यतीतेषु अवश्यमेव सांवत्सरिककृत्यविशिष्टा गृहिज्ञातपर्युषणाकार्येत्यलम्प्रसङ्गेन । तत्र प्रागुक्ता गृह्यज्ञातपर्युषणा सा यस्यां वर्षायोग्यपीठफलक-शय्या-संस्तारकादीनां सम्प्राप्ते कल्पोक्ता द्रब्यादिचतुर्भेदभिन्ना स्थापना क्रियते। सा चैवं-द्रव्यतः खोचितानां तृणडगलादीनां परिग्रहः सचित्तानां च परिहारः, तत्र सचित्तद्रव्यं-शिष्यः, स चातिश्रद्धं राजानममात्यं च विनाऽन्यो न
For Private And Personal use only