SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra xoxox www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तथाहि--"पूगीफलशृङ्गाटक- खर्जूर सितोपलास्तथा खण्डा। चारुकुलिचारुवीजा - द्राक्षादिसुखाशिकावृन्दम् ॥४॥” "सौवर्णरत्नराजत - मिश्राणि च पुस्तकोपकरणानि । कमनीयमषी भाजन - लेखनिकापट्टिकादीनि ॥ ५ ॥ ” "वाग्देवीप्रतिमाऽर्चा - कृतये सौवर्णभूषणं भव्यम् । नव्यबहुरत्नखचितं, छात्राणां विविधवस्त्राणि ॥ ६ ॥ " इत्याद्यखिलसामग्रीयुतः, कुलवृद्धाभिस्तीर्थोदकैः स्लपितः, परिहितविविधालङ्कारः, शिरोधृतश्वेतातपत्रश्चतुश्चामरवीज्यमानाङ्गश्चतुरङ्ग सैन्यसमन्वितो वाद्यमान विविधवादित्रः पण्डितगेहमुपाजगाम, पण्डितोऽपि भूपालपुत्रपाठनोचितां पर्वपरिधेयक्षीरोदकल्प धौतिक-हैमयज्ञोपवीत-द्वादशतिलकादिसामग्रीं यावत्करोति तावत् " वातान्दोलितकेतुवज्जलनिधौ सङ्क्रान्तशीतांशुवत्, प्रोद्दामद्विपकर्णवन्मृगदृशः खाभाविकखान्तवत् ।” "मूषोत्तापित हेमवद्ध्रुवमपि प्रौढप्रभावात्प्रभो - राकम्पेन चलाचलं समभवद्देवेन्द्रसिंहासनम् ॥ १ ॥ " ततोsवधिना ज्ञातवृत्तः शक्रो देवानित्थमवादीत् - हंहो ! महच्चित्रं !! यदर्हतोऽपि लेखशालानयनं, यतः - “साने वन्दनमालिका स मधुरीकारः सुधायाः स च ब्राह्म्याः पाठविधिः स शुभ्रिमगुणारोपः सुधादीधितौ ।” "कल्याणे कनकच्छटा प्रकटनं पावित्र्यसम्पत्तये, शास्त्राध्यापनमर्हतोऽपि यदिदं सल्लेखशालाकृते ॥ १ ॥ " "मातुः पुरो मातुलवर्णनं त-लङ्कानगर्या लहरीयकं तत् । तत्प्राभृतं लावणमम्बुराशेः, प्रभोः पुरो यद्वचसां विलासः यतः - "अनध्ययनविद्वांसो, निर्द्रव्यपरमेश्वराः । अनलङ्कारसुभगाः, पान्तु युष्मान् जिनेश्वराः ॥ ३ ॥ " [ ॥२॥” इत्यादि वदन् कृतविप्ररूपस्त्वरितं यत्र पण्डितगेहे भगवांस्तिष्ठति, तत्र समागत्य पण्डितोचिते आसने For Private And Personal Use Only *-*-*-*
SR No.020546
Book TitleParyushana Kalpsutram
Original Sutra AuthorN/A
AuthorKesharmuni, Buddhisagar Gani
PublisherJinduttsuri Gyanbhandar
Publication Year1942
Total Pages435
LanguageSanskrit
ClassificationBook_Devnagari, Paryushan, & agam_kalpsutra
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy