SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobasrth.org Acharya Shri Kailassagarsuri Gyanmandir पर्युषणा कल्पार्थबोधिन्याः व्या० ३ ॥४७॥ FOXXXoxaxXBXXBX8X6XBX तओ पुणो चंदकिरणरासि-सरिस-सिरिवच्छसोहं, चउगमण-पवड्डमाण-जलसंचयं, चवल-चंचलुच्चायप्पमाण-कल्लोल-लोलंततोय, पडुपवणाहय चलिय चवल-पागड-तरंगरंगत-भंग-खोखुम्भमाण-सोभंत-निम्मलुक्कड-उम्मी-सह-संबंध-धावमाणो-नियत्त-भासुरतराभिराम, महामगरमच्छ-तिमि-तिमिगिल-निरुद्ध-तिलितिलिया-भिधायकप्पूरफेणपसरं, महानई-तुरियवेग-समागय-भम-गंगावत्त-गुप्पमाणुच्चलंत ४४-ततः पुनश्चन्द्रकिरणानां यो राशिः' समूहस्तत्सदृशा श्रीर्यस्या, एवंविधा 'वक्ष शोभा' मध्यशोभा यस्य, तं । तथा चतुर्पु गमनेषु-दिमार्गेषु प्रवर्द्धमानजलसञ्चयं, तथा 'चपलचञ्चलै' अतिचपलैः 'उच्चात्मप्रमाणैः' अत्युन्नतमानैः कल्लोलैलोलत्' पुनः पुनरेकीभूय पृथग्भवत्तोयं यस्य, तं। पुनः ‘पटुना' अमन्देन पवनेन आहतास्सन्तश्च लिता, अतश्चपलाः प्रकटाश्च ये 'तरङ्गा' लघुकल्लोलास्तथा 'रङ्गन्तः' इतस्ततो नृत्यन्तो ये 'भङ्गाः' सविच्छेदकल्लोलास्तथा "खोखुब्भमाण"त्ति अतिक्षुभ्यन्तो-भयभ्रान्ता इव भ्रमन्तः शोभमाना निर्मला 'उत्कटा' दुस्सहा ये 'ऊर्मयों' महाकल्लोलास्तैः सह यःसम्बन्धो-मिलनं, तेन 'धावमान' तीराभिमुखं सद्भिः "अपनिवृत्तैः' पश्चाद्वलितैश्च भासुरतरोऽभिरामश्च यः, तं । पुनर्महान्तो मकरा मत्स्याश्च प्रतीताः, तिमयस्तिमिङ्गिला निरुद्धास्तिलितिलिकाश्चैते जलजन्तुभेदास्तेषां अभिघातेन' पुच्छाच्छोटनेन कर्पूरवदुज्वलः फेनप्रसरो यत्र, तं । पुनर्महानदीनां-गङ्गादीनां त्वरितवेगैः-शीघागमनैः 'समागत उत्पन्नो यो गङ्गाव ख्यो 'भ्रम' आवर्तस्तत्र 'गुप्यत्' व्याकुलीभवदत एव 'उच्चलत्' आवर्त्तपतितत्वेनान्यत्र निर्गमावकाशाभावादूर्ध्वमुच्छलत्, 'प्रत्यवनिवृत्तं' ऊर्ध्वमुच्छल्य पुनस्तत्रैव पतितं सदावर्त एव भ्रमत् 'लोलं' खभावतश्चपलं सलिलं यत्र, सूत्रं ४४ श्रेयोमाङ्गल्यसूचके त्रिशलायाः खमचतु| देशके क्षीरोदधिवर्णनम् ॥४७॥ For Private And Personal Use Only
SR No.020546
Book TitleParyushana Kalpsutram
Original Sutra AuthorN/A
AuthorKesharmuni, Buddhisagar Gani
PublisherJinduttsuri Gyanbhandar
Publication Year1942
Total Pages435
LanguageSanskrit
ClassificationBook_Devnagari, Paryushan, & agam_kalpsutra
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy