SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्रीपर्युषणपर्वकल्प प्रभायां ॥ १९ ॥ *% www.kobatirth.org "अप्रसन्नात्कथं प्राप्यं, फलमेतदसङ्गतम् । चिन्तामण्यादयः किं न, फलन्त्यपि विचेतनाः १ ॥ १ ॥” इति । तथा जनप्रतिमा फलप्रदा सविधिपूजने प्रशस्तसमाधिचित्तोत्पादकत्वादर्हन्निव चिन्तामण्यादिवद्वा जिनप्रतिमार्चनं कर्तव्यं, कर्तुर्मनः प्रसच्या कर्मक्षयोपशमादिफलजनकत्वात्, तप आदिवदिति मन्तव्यम् । Acharya Shri Kailassagarsuri Gyanmandir नन्वेवं तर्हि केषाञ्चिद्भगवत्पूजातोऽप्यहितप्राप्तिरिति कथमिति चेत्, तत्र तत्कृताविधिरेव कारणं न तु भगवान्, तथाहि अग्निमविधिनाऽऽसेवमानस्तत्र हस्तक्षेपेण दग्धो भवेत्तत्र नैवाऽग्नेर्दोषः, वैद्योक्तपथ्यविधिमुत्सृज्याऽविधिनौषधसेवनेनाऽहितं स्यात्तत्र न वैद्यस्य दोषः, किन्तु कुवासनावासितखाशयस्यैव । एवं सकलजगजन्तुजात हितावहस्याऽप्यनन्तगुणनिधेर्भगवतः शास्त्रोक्त विधिमुत्सृज्य निकाचितपापकर्म कलुषितात्मभिरविधिनाऽर्चनेऽहितप्राप्तिस्स्यात्तत्र न भगवतो दोषः, किन्तु स्वीयदुष्टाशय एव कारणम् । प्रभुशासने शुभाशुभात्मपरिणाम एवं मुख्यवृत्त्या शुभाशुभकर्मबन्धकारणं, निश्चयनयेन खाशयशुद्धौ गुणावाप्तिस्तदशुद्धौ च दोषावाप्तिरिति हेतोः । नन्वस्तु जिनप्रतिमापूजनं सफलं तथापि तत्फलं किमिति चेत्, उच्यते - शास्त्रे प्रोक्तम्"" जिण अणं तिसंझं, कुणमाणो सोहए य सम्मत्तं । तित्थयरनामगुत्तं, पावर सेणियनरिंद व ॥ १ ॥ १ जिनपूजनं त्रिसन्ध्यं कुर्वन् शोधयति च सम्यक्त्वम् । तीर्थकरनामगोत्रं प्राप्नोति श्रेणिकनरेन्द्र इव ॥ १ ॥ For Private and Personal Use Only जिनप्रतिमापूजाफलाधिकारः। ॥ १९ ॥
SR No.020545
Book TitleParyushanparv Kalprabha
Original Sutra AuthorN/A
AuthorVijaydarshansuri
PublisherJain Granth Prakashak Sabha
Publication Year1999
Total Pages74
LanguageSanskrit
ClassificationBook_Devnagari, Paryushan, & agam_kalpsutra
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy