SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandit सांवत्सरिकप्रतिकमणे मिथ: क्षामणाकरणाधिकारः। श्रीपर्युषण सर्वैरथाऽऽब्दिकप्रतिक्रमणे विधेया, सत्क्षामणाकरणतो मिथ आत्मशुद्धिः। पर्वकल्प-18 मिथ्याऽस्तु पूर्वकृतदुष्कृतमत्र सर्व, द्राङ्ले शिवैकमनसेति विभावनीयम् ॥४॥ प्रभायां सांवत्सरिकप्रतिक्रमणे पुनरकरणवृत्त्या न तु कुम्भकारवृत्तिसदृशवृत्त्या द्रव्यतोऽञ्जल्यादियोजनेन भावतो ॥१७॥ निश्शल्यादिभावेन मिथ्यादुष्कृतदानेन सकलसङ्घर्मिथस्वापराधक्षामणा कर्तव्या। तस्याः किं फलमिति चेत्, उच्यते-प्रवरात्मशुद्धिराराधकभावश्चेति । अनुमानञ्चात्र सांवत्सरिकप्रतिक्रमणे मिथ:क्षामणा निश्शल्यादिभावेन कर्तव्या प्रवरात्मशुद्धिकारकत्वात्, आराधकभावजनकत्वाच्च सम्यक्तपोवत् । तथाहि यो भवभीरुर्विशुद्धात्मपरिणत्या वापराधिनमक्षान्तमपि क्षमयति स आराधक उदयननृपवत् । यश्च क्रोधादिदुष्टात्मपरिणत्याऽपराधिनमुपशान्तमपि न क्षमयति स विराधकश्चण्डप्रद्योतनृपवत् । उक्तश्च "जो उवसमइ तस्स अस्थि आराहणा, जो उन उवसमइ तस्स नत्थि आराहणा, तम्हा अप्पणा चेव उवसमियत्वं, से किमाहु भंते ? उवसमसारं खु सामन्नं” इति । अथ "मित्ति मिउमद्दवत्ते, छत्ति य दोसाण छायणे होइ। मित्ति य मेराइठिओ, दुत्ति दुगुंछामि अप्पाणं ॥१॥ कत्ति कडं मे पावं, डत्ति य डेवेमि तं उवसमेणं ।” १य उपशमयति तस्याऽस्त्याराधना, यस्तु नोपशमयति तस्य नाऽस्त्याराधना, तस्मादात्मना चैवोपशमयितव्यं, तत्किमर्थं भदन्त ? उपशमसारंखलु श्रामण्यम्। २ मीति मृदुमार्दवत्वे,छेति च दोषाणां छादने भवति ।मीति च मर्यादायां स्थितो द्विति जुगुप्साम्यात्मानम् ॥१॥ केति कृतं मे (मया) पापं, डेति च डेवेमि तदुपशमेन । ॥१७॥ For Private and Personal Use Only
SR No.020545
Book TitleParyushanparv Kalprabha
Original Sutra AuthorN/A
AuthorVijaydarshansuri
PublisherJain Granth Prakashak Sabha
Publication Year1999
Total Pages74
LanguageSanskrit
ClassificationBook_Devnagari, Paryushan, & agam_kalpsutra
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy