SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir प्रत्यासन्नो बालस्य शीतं व्यपनयति तद्बद्भावाग्निरूपं प्रतिक्रमणं सामायिकश्चाऽज्ञातार्थमविज्ञातगुणमपि भावात्मिकं कर्मशैत्यं यतो व्यपनयति, तदेव हंसदृष्टान्तेन वन्दारुवृत्तौ निष्टङ्कितं, तथाहि "एकस्मिन् सन्निवेशेऽभूत्, स्थविरैका सुदुर्गता । हंसो नाम सुतस्तस्या, वत्सरूपाण्यचारयत्॥१॥ सोऽन्यदा बहिरुद्यानात्, सायमायन् गृहं प्रति । दष्टो रुष्टेन दुष्टेन, दन्दशूकेन निष्ठुरम् ॥२॥ तत्क्षणाद्विषवेगेन, सर्वाङ्गमपि भावितः। पपात मूर्च्छितो भूम्यां, काष्ठवन्नष्टचेतनः ॥३॥ केनापि तजनन्यास्तत्, कथितं साऽपि सत्वरम्।मात्रिकान् मेलयित्वाऽगात्, पूत्कुर्वन्ती सुतान्तिकम् ॥४॥ मृतोऽयमिति मन्वाना-स्ते सर्वेऽगुर्यथागतम् । एकाकिन्यपि सा रात्रौ, तत्राऽस्थाच्छोकसङ्कला ॥५॥ कर्णमूले स्थिता तत्र, रुदत्युच्चैस्वरेण सा । हा! पुत्र ! हंस ! हंसेति, वृद्धाऽश्रान्तमवोचत ॥ ६॥ तस्या एवं रुदन्त्यास्सा, कथञ्चन निशाऽगमत् । सुप्तवत्सहसोत्तस्थौ, हंसो हंसोदये ततः॥७॥ सजीभूतं च तं ज्ञात्वा, मात्रिकाः पुनरागताः । अपृच्छन्नस्य किं चक्रे ?, त्वया वृद्धे ! चिकित्सितम् ॥८॥ साऽप्यूचे हंस ! हंसेति, वदन्ती स्थितवत्यहम् । तेऽप्यूचुर्गारुडे मन्ने-ऽमूनि बीजाक्षराणि भोः॥९॥ तदर्थमविदन्त्यापि, जरत्या कर्णजापतः । स्वपुत्रो निर्विषीचक्रे, प्रभावो ह्यक्षरेष्वहो?॥१०॥” इति । पुनः श्रीपर्युषणापर्वण्यन्यत्किं कर्तव्यमित्याशङ्कायामाह | अज्ञातार्थगुणोऽपि मत्रो विषन्न | इत्यत्र हंस| दृष्टान्तः। For Private and Personal Use Only
SR No.020545
Book TitleParyushanparv Kalprabha
Original Sutra AuthorN/A
AuthorVijaydarshansuri
PublisherJain Granth Prakashak Sabha
Publication Year1999
Total Pages74
LanguageSanskrit
ClassificationBook_Devnagari, Paryushan, & agam_kalpsutra
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy