SearchBrowseAboutContactDonate
Page Preview
Page 951
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारकाण्डम् । ३६५ "राजयानासनारोहे दण्डो मध्यमसाहसः" इति । कात्यायनोऽपि,"राजकौडास ये मक्का राजवृत्त्युपजीविनः । अप्रियञ्चास्य यो वका बलं तेषां प्रकल्पयेत्” इति । राज्ञः कोशापहरणादौ दण्डमाह मनुः, "राज्ञः कोशापहत्तश्च प्रतिकूलेषु च स्थितान् । घातयेद्विविधैर्दण्डैहरेत्सर्वस्वमेवच” इति । सर्वस्वापहारेऽपि यद्यस्य जीवनोपकरणं तत्तस्य नापहर्तव्यमित्याह नारदः, "आयुधान्यायुधीयानां बीजानि कृषिजीविनाम् । वेश्यास्त्रीणामलङ्कारान् वाद्यावाद्यानि तदिदाम् ॥ यच्च यस्योपकरणं येन जीवन्ति कारकाः । सर्वखहरणेऽप्येतन राजा हर्तुमर्हति" इति । ब्राह्मणस्य बधस्थाने मौण्ड्यमाह मनुः, "ब्राह्मणस्य बधे मौण्ड्यं पुराविर्वासनाङ्कने । ललाटे चाभिशस्ताझं प्रयाणं गर्दभेन तु” इति । कोपात्परस्परभेदनादौ दण्डमाह याज्ञवल्क्यः, "दिनेत्रभेदिनी राज* विष्टादेशकृतस्तथा। विप्रचिन शूद्रस्य जीवतोऽष्टमतो दमः” इति । यत्तु सत्यन्तरेऽभिहितम्, "द्विजातिलिङ्गिनः शूद्रान् चित्रदण्डेन घातयेत्” इति। * राजा,- इति शा० । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy