________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहारकाण्डम् ।
३७३
कारश्रवणात् । अस्तु ऋणापाकरणेऽधिकारः । ऋक्थभावं कुतइति चेत् । तन्न । “ऋक्थभाजः ऋणं प्रतिकुर्युः” इति गौतमवचनेन शुक्थभाजामेव ऋणापाकरणधिकारश्रवणात् । पौत्राणामप्यभावे भर्नादयोऽपि ऋक्थभाजः। अत्रैव विवाहभेदेन विशेषमाह मनुः,
"ब्राह्मदैवार्षगान्धर्वप्राजापत्येषु यद्धनम् । अप्रजायामतीतायां भर्तुरेव तदिष्यते ॥ यत्तस्यै स्थाद्धनं दत्तं विवाहेवासुरादिषु ।
अतीतायामप्रजायां मातापित्रोस्तदिव्यते”–दति । ब्राहादैवार्षगान्धर्वप्राजापत्यविवाहेषु संस्कृताया भा-या यद्धनं तद्दहित्रादिपौत्रान्ततद्धनहारिमन्ततेरभावे मति भर्तगामि, न पुनर्मात्रादौनामित्यर्थः । श्रासुरराक्षसपैशाचविवाहसंस्कृतायाः भाऱ्यायाधनं मातापित्रोर्भवतीत्यर्थः । यत्तु कात्यायनेनोकम्,--
“बन्धुदत्तन्तु बन्धनामभावे भर्दगामि तत्" इति । नदासुरादिविवाहसंस्कृतस्त्रीविषयम् । अतएवोकं तेनैव,_ "श्रासुरादिषु यलब्ध स्त्रीधनं पेटकं स्त्रियाः ।
प्रभावे तदपत्यानां मातापित्रोः तदिव्यते"-दति । भादिभिर्दत्तमपि शुल्काख्यं स्त्रीधनं मोदरएव ग्रहाति। तथाच गौतमः । “भगिनौशुल्कं मोदOणामूर्ध्वं मातुः” इति । मोदUणामभावे मातर्भवतीत्यर्थः । यत्पुनस्तेनेवोकम् । “स्वञ्च शुल्क वोढ़ाऽईति”-इति। तच्छुल्कग्रहणानन्तरं संस्कारात् प्राक् मृतायां द्रष्टव्यम् । अतएव याज्ञवल्क्यः ,
"मृतायां दत्तमादद्यात् परिशोध्योभयव्ययम्" इति ।
For Private And Personal Use Only