SearchBrowseAboutContactDonate
Page Preview
Page 909
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारकादम्। एषामभावे पूर्वस्य धनभागुत्तरोत्तरः । वातस्य ह्यपुत्रस्य सर्ववर्णेष्वयं विधिः” इति । औरसादयो द्वादश विधपुत्रा यस्य न सन्यसावपुत्रः । तस्य मृतस्थ धनं पत्न्यादीनां पूर्वस्य पूर्वस्थाभावे उत्तरोत्तरोग्टहाति । अयं दायग्रहणकमः सर्वेषु मूविसिकादिष्वनुलोमजेषु वर्णेषु च बाह्यणादिषु वेदितव्य इत्यर्थः । पत्नी विवाहादिसंस्कृता नारौ। सा प्रथमं पत्युर्धनं ग्टहाति । तदाह सहस्पतिः, “कुलेषु विद्यमानेषु पिटमाटमनाभिषु । असुतस्य प्रमौतस्य पनी तद्धनहारिणौ” इति । अत्र विशेषमाह वृद्धमनुः "अपुत्रा शयनं भर्तुः पालयन्ती व्रते स्थिता। पत्न्येव दद्यात्तपिण्डं शस्नमंशं लभेत च"-इति । तदयं अपुत्रदायग्रहणक्रमः। दादाविधपुत्रशून्यस्य मृतस्य धनं पनौ ग्रहाति। तदभावे दुहिता। तदभावे दौहित्रः। तदभावे माता । तदभावे पिता । तदभावे भ्राता। तदभावे तत्पुत्रः । तदभावे पितामहौ । तदभावे तद्धनं पितामहोग्टहाति तत्पुत्रास्तत्पुत्राश्च । पितामहसन्तानाभावे प्रपितामहः तत्पुत्रास्तत्पुत्रायेति सप्तमपर्यन्तं गोवजा धनं ग्टहन्ति। सपिण्डानामभावे समानोदकाधनं टलन्ति । समानोदकाच मपिण्डानामुपरि मप्त पुरुषाः, जन्मनामज्ञानपर्यन्ता वा । तदुक्तं वृहन्मनुना, "मपिण्डता तु पुरुषे मप्तमे विनिवर्त्तते । समानोदकभावस्तु निवर्तताचतुर्दशात् । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy