SearchBrowseAboutContactDonate
Page Preview
Page 908
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २५२ पराशरमाधवः । कृत्रिमग्रहणं वोपलक्षणार्थम् । दत्तव्यतिरिकानां गौणपुत्राणं ऋक्थभालप्रतिपादकानि वाक्यानि युगान्तरविषयाणि, कलौ युगे तेषां पुत्रत्वेन परिग्रहणस्य स्मृत्यन्तरे निषिद्धत्वात् । __ "दत्तौरसेतरेषान्तु पुत्रत्वेन परिग्रहः । देवरेण सुतोत्पत्ति: वानप्रस्थाश्रमग्रहः ॥ कलौ युगे विमान् धर्मान् वानाहुर्मनीषिणः” इति । शुद्रधन विभागे विशेषमाह याज्ञवल्करः, "जातोऽपि दास्यां शुद्रेण कामतोऽशहरो भवेत् । मृते पितरि कुर्युस्तं भ्रातरस्त्वर्धभागिनम् ॥ अभ्राहको हरेत्सर्वं दुहितॄणां सुतादृते” इति । कामतः पितुरिच्छया भागं लभते। मृते पितरि यदि परिणौतापुत्राभ्रातरः सन्ति, तदा ते दासीपुत्रं स्वभागादर्धभागिनं कुर्युः । अय परिणौतापुत्रा दुहितरो वा तत्पुत्रा वा न सन्ति, तदा तद्धनं दासीपुत्रो लभते । तत्सद्भावे अर्द्धमेव । द्विजातीनां दास्यामुत्पन्नस्तु पितुरिच्छयाप्यंशं न लभते नाप्यर्द्धम् । जातोऽपि दास्यां शूनेणेति विशेषणात् । किन्त्वनुकूलश्चेज्जीबनमात्रं लभते इत्यभिप्रायः । अपुत्रदायग्रहणक्रममाह याज्ञवल्क्यः, - "पत्नी दुहितरश्चैव पितरौ भ्रातरस्तथा । तत्सुतो गोत्रजो बन्धुः शिव्यः सब्रह्मचारिणः ॥ * इत्यमेव पाठः सर्वत्र । मम तु, दत्रिमग्रहणं चोपलक्षणार्थम्, इति पाठः प्रतिभाति । तथाच दविमादयः पुत्रा जनयितुर्गात्रऋक्थे न भनेरन्,-इति पर्यावसितोवचनार्थ इति भावः । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy