SearchBrowseAboutContactDonate
Page Preview
Page 851
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारकाण्डम् । २६५ निष्ठुराकोशे दण्डमाह याज्ञवल्क्यः, "सत्यासत्यान्यथास्तोत्रैन्यूंनाङ्गेन्द्रियरोगिणाम् । क्षेपङ्करोति चेद्दण्ड्यः पणान त्रयोदश” इति । सत्येनासत्येनान्यथास्तोत्रेण(१) न्यूनाङ्गादौनां तर्जनीतर्जनं यः करोति, असावधिकद्वादशपणं दण्डनीयः । एतत्समवर्णगुण विषयम् । तथाच वृहस्पतिः, "समजातिगुणानान्तु वाक्पारथ्ये परस्परम् । विनयोऽभिहितः शास्त्रे पणान त्रयोदश"-दति । यत्तु मनुवचनम्,-- "काणं वाऽप्यथवा खञ्जमन्यं वाऽपि तथाविधम् । तथ्येनापि ब्रुवन् दाप्यो दण्डः कार्षापणावरम्” इति । तदपि दुर्वृत्तविषयम् । मात्राद्याक्षेपकं प्रत्याह मनुः, "मातरं पितरं जायां भ्रातरं श्वशारं गुरुम् । श्राचारयञ्छतं दाप्यः पन्थानं वाऽददगुरोः"-दति । एतच्चापराधिषु मात्रादिषु जायायां वा निरपराधायां वेदितव्यम् । स्वस्राद्याक्षेपे दण्डमाह सहस्पतिः, "क्षिपन खस्रादिकं दद्यात् पञ्चाशत्पणिक दमम्” इति । प्रातिलोम्यानुलोम्याभ्यामाकोशे दण्डमाह मनुः, "शतं ब्राह्मणमाक्रुश्य क्षत्रियो दण्डमर्हति । (१) सत्येन यथा नेत्रशून्ये नेत्रशून्य त्वमसौति । असत्येन यथा. नेत्रबन्तं प्रति नेत्र शून्यस्त्वमसीति । अन्ध थाम्तोत्रेण य था, अन्धं प्रति चदंमान तिा येनासीति । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy