SearchBrowseAboutContactDonate
Page Preview
Page 793
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारकाण्डम् । २३० "कृते कर्मणि यः खामौ न दद्यादेतनं भते । राज्ञा दापयितव्यः स्यात् विनयं चानुरूपतः" इति । निमनं भृत्यं पथि त्यजतो दण्डमाह कात्यायनः, "त्यजेत्पथि सहायं यो भृत्यं रोगार्तमेवच । प्राप्नुयात् माह पूर्वं ग्रामे अहमपालयन्” इति । पण्यस्त्रौतदुपभोकृविषये त्वाह नारदः, "शुल्क ग्रहीत्वा पण्यस्त्रौ नेच्छन्तौ दिगुणं वहेत् । अनिच्छन् शुल्कदाताऽपि शुल्कहानिमवाप्नुयात्” इति । एतदव्याधितादिविषयम् । व्याधित विषये तु स्मृत्यन्तरम्, "व्याधिता संभ्रमा व्यग्रा राजोधर्मपरायणा। आमन्त्रिता च नागच्छेत् अवाच्या वड़वा स्मृता"-इति । अत्यन्तावश्यके जातसम्भमा सम्भ्रमपदेन उका। तचैव व्याकुला व्यया । वड़वा दासी । दासौग्रहणमत्र पण्यस्वीप्रदर्शनार्थम् । उपभोकारं प्रत्याह नारदः, "प्रयच्छन् तथा शुल्कमनुभूय पुमान् स्त्रियम् । अक्रमेण च मङ्गच्छेदातयेद्दा नखादिभिः ॥ अयोनौ यः समाक्रामेडिभिर्वा विवासयेत्(१) । * तदा, इति का। + जड़,-इति का० शा.। (१) बक्रमेण कामशास्त्रोक्तप्रकारविरोधेन । घातयेदा नखादिभिरित्य त्राप्येतदनुषञ्जनीयम् । बयोनौ मुखादी, समाक्रामेत् ग्राम्यधर्म कुर्यात् । यात्मार्थं भाटयित्वा बहुभिः पुरुषैः सह विशेषेण वासयेदिति वचनार्थः । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy