SearchBrowseAboutContactDonate
Page Preview
Page 682
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२६ पराशरमाधवः। घटनिर्माणप्रकारमाह पितामहः, "चतुर्हस्ता तुला कार्या पादौ कार्यों तथाविधौ । अन्तरन्तु तयोईस्तौ न चेदध्यर्द्धमेवच ॥ च्छिला तु याज्ञिकं वृक्ष हेतुवन्मन्त्रपूर्वकम् । प्रणम्य लोकपालेभ्यस्तुला का• मनीषिभिः"--इति ॥ नारदः, "खादिरौं कारयेत् तत्र निर्बणां शक्लवर्जिताम् । शिंशपान्तदभावे तु मालं वा कोटरैर्विना ॥ अर्जुनस्तिलकोऽशोकः शमीयो रक्तचन्दनः । एवंविधानि काष्ठानि धटार्थ परिकल्पयेत् ॥ ऋज्वौ धटतुला कार्या खादिरौ तेन्दुको तथा । चतुरस्त्रस्तिभिः स्थानैर्धटः कर्कटकादिभिः" इति । पितामहः, "कर्कटानि च देयानि त्रिषु स्थानेषु यत्नतः । हस्तद्वयं निखेयन्तु पादयोरुभयोरपि”–दति ॥ व्यासः, "हस्तद्वयं निखेयन्तु प्रोक्तं मुण्डकयोस्तयोः । षड्स्तन्तु तयोः प्रोक्तं प्रमाणं परिमाणतः” इति ॥ पितामहोऽपि, "तोरणे तु तयोः कार्य पार्श्वयोरुभयोरपि । धटादच्चतरे स्यातां नित्यं दशभिरङ्गुलैः ॥ अवलम्बा तु कर्तव्यौ तोरणाभ्याभधोमुखौ । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy