SearchBrowseAboutContactDonate
Page Preview
Page 652
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ह परापूवमाधवः । "मत्ताभियुक्तस्त्रौबालबलात्कारकृतं तु यत् । तदप्रमाणं लिखितम्भयोपाधिकृतं तथा"-इति । कात्यायनोऽपि, "माहिदोषात् भवेद्दग्ध' पत्रं वै लेखकस्य वा । धनिकस्यापि वै दोषात् तथा वा ऋणिकस्य च" इति । दोषोभावयितन मएवाह, “प्रमाणस्य हि ते दोषाः वक्रव्यास्ते विवादिनः । गढाः सुप्रकटाः सभ्यः कार्य शास्त्रप्रदर्शनात्" इति ॥ उद्भावनप्रकारांश्च मएवाह, "माफिलेखनकर्तारः कूटतां यान्ति वादिनः । तथा दोषाः प्रयोक्रव्यां दुष्टे लेख्यं प्रदुय्यति ॥ न लेखकेन लिखितं न दृष्टं माचिभिस्तथा । एवं प्रत्यर्थिनोक्रेन कूटलेख्यं प्रकीर्तितम् ॥ तथ्येन हि प्रमाणं तु दूषणेन तु दूषणम् । मिथ्याऽभियोगे दण्ड्यः स्यात् माध्यार्थादपि होयते"-दति। अनन्तरभाविराजकृत्यमाह वृहस्पतिः, "तथ्येन हि प्रमाणं तु दूषणेन तु दूषणम् । एवं दृष्टं नृपस्थाने यस्मिन् तद्धि विचार्य्यते ॥ विश्य ब्राह्मणैः मार्द्ध वक्रदोषाच्च निश्चितम्" इति । • इत्य मेव पाठः सर्वत्र । मम तु, भवेदएं, इति पाठः प्रतिभाति । त्य मेव पाठः सर्वत्र । मम तु, ये दाधाः, इति पाठ प्रतिभाति । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy