SearchBrowseAboutContactDonate
Page Preview
Page 538
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५२८ पराशरमाधवः । [१२ अ.. देहेनानेन* वाऽन्येन युगपदा क्रमेण वा ॥ श्वसूकरखरोष्ट्रादिविरुद्धैर्विग्रहरपि । भोकाऽस्यैव फलस्येह शुक, कर्माणि च क्रमात् ॥ कारणानि भवन्तौह चक्रवत् परिवर्त्तने । पारभन्ते क्रमेणैव तेषां नाशस्तु भोगतः ॥ मञ्चितेषु समस्तेषु प्रबलं कर्म देहिनः । फलमारभते देहमपि तत्साधनं बुध ॥ दुर्घट सकलं शक्तिर्माया माहेश्वरौ जड़ा । घटयत्यत्र सन्देहो नास्ति मा तादृशौ गतिः" इति । प्रबलेन कर्मणा प्रारब्धफलस्थ प्रतिबन्धाङ्गीकारे नैसर्गिकाः कुनखित्वादयोऽपि कचित् प्रतिबध्येरनिति चेत् । प्रतिबध्यन्तां नाम । यत्र प्रतिबन्धोन दृश्यते, तत्र दौर्बल्यं कल्पनीयम् । प्रबलाभ्यान्तु वर-शापाख्यां जन्मान्यथाभावोऽपि क्वचित् स्मर्य्यते । तथाच स्कन्दपुराणे व्याघ्र ईश्वरवरेण गणेश्वरत्वं प्राप्त इत्यभिहितम्। महाभारते नहुषस्येन्द्रपदप्रेमोरगत्यशापेनाजगरत्वं प्राप्तमित्यभिहितम्। यदा जातस्य देहस्यापि प्रबलेन निमित्तेनान्यथाभावोऽस्ति, तदा किमु वक्तव्यं, कौनख्यादेरन्यथाभावः, इति। एवञ्च मति रोगशान्यादिप्रतिपादकानि सर्वाणि शास्त्राणि प्रारब्धभोगाविरोधेनानुग्टहीतानि भविष्यन्ति । रोगशान्तिश्चौषधादिसाध्या । तत्रौषध्यान्यायुर्वेदप्रमिद्धानि। दानानि च बौधायन * देहेनै कन,-इति शा०। For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy