________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
परापारमाधवः ।
[१२ प.
प्रकाशउक्र यत्किञ्चिविंशोभागो रहस्यके ॥
त्रिंशद्भाग: षष्टिभागः कल्यो जात्याद्यपेक्षया” इति । *जमदमिः,
"तीर्थ तु पादकच्छं स्थानद्यामर्द्धफलं लभेत् ।
दिगुणन्तु महानद्यां सङ्गमे त्रिगुणं भवेत्” इति ॥ इति कृच्छ्रप्रत्याबाया निरूपिताः । अथ कर्मविपाको निरूप्यते ।
यद्यपि लोके धर्मशब्दः सुकृतदुष्कृतयोः साधारणः, तथाप्यत्र प्रायश्चित्तस्य प्रकृतत्वात्तनिवर्त्यतया दुष्कृतस्यैव बुद्धिस्थत्वात्तत्रैव पर्य्यवस्यति । विशेषेण पचनं विपाकः फलदशा। कर्म विपाकः कर्मविपाकः। स च विपाकस्त्रिविधः, जन्म चायुभांगश्चेति । एतत् सर्व पतनलियोगशास्वे सूत्रयामास । “मति मूले तदिपाकोजा त्यायुभीगाः” इति । अस्य सूत्रस्थायमर्थः । अविद्याऽस्मितारागद्वेषाभिनिवेशात्मकाः पञ्च क्लेशाः कर्मणां मूलम् । “केशमूलः कर्माशयः” इति सूत्रितत्वात् । मति तस्मिन् पञ्चक्लेशात्मके मूले तानि कर्माणि विपच्यन्ते । दग्धक्केशवोजस्य तु जीवन्मुक्रस्य न मञ्चितानि कर्माणि फलमारभन्ते। ज्ञानामिना भस्मसात् कृत्वात् । यथा वितुघोत्रीहिन प्ररोहति। तद्वत्। तस्मात् बौजस्थानौयं क्लेमपञ्चकमुपजौव्यैव कर्माणि जन्मादिचयरूपेण विपच्यन्ते ।
नत्र जन्म क्रिम्यादि। ___ “पतितं याजयित्वा तु क्रिमियोनौ प्रजायते"
* नास्त्ययमंशः मु. पुस्तके ।
For Private And Personal Use Only