________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पराशरमाधवः।
[१२५.।
हानि विकर्माणि । तेषु तात्पर्येण तिष्ठन्तौति विकर्मस्थाः । ताम् वर्जयित्वा यथाशास्त्रं वर्तमानाचातुर्वर्णात् सेतुबन्धमार्ग भिक्षा चरेत् । छत्रोपानद्विवर्जित इति न केवलं भिक्षाबेलायां, किन्तु गमनेऽपि द्रष्टव्यम्।
भिक्षमाणेन वक्तव्य मुक्तिप्रकारमाह,अहं दष्कतकर्मा वै महापातककारकः॥६६॥ गृहदारेषु तिष्ठामि भिक्षार्थी ब्रह्मघातकः । इति ।
पापप्रख्यापनस्य प्रायश्चित्ताङ्गत्वात् प्रतिभिक्षाग्रहमहं दुष्कृतकमत्यादि वाक्येन वपापं प्रख्यापयेत् । अप्रख्यापने बाधमाझाङ्गिराः,
"कृत्वा पापं न गूहेत गूह्यमानं विवर्द्धते"-इति । दुष्कृतकी महापातककारको ब्रह्मघातक इति पदत्रयस्य महासामान्यावान्तरसामान्यतविशेषवाचित्वादपुनरुकि:(१) ।
अध्वश्रान्तस्यावस्थातुं देश विशेषमाह,
* कर्त्तव्य, इति मु.।
(९) दुष्कृतकम्मा,-इति पापवमहासामान्यवाधि पदम् । महापातक
कारक इति महायापत्वरूपावान्तरसामान्यवाचि पदम्। ब्रह्मघातक इति ब्रह्मवधपापत्वरूपावान्तरसामान्यविशेषवाचि पदम् । सामान्यप्राप्तेस्तु विशेषकथनमपुनयक्तमेव । “घाचार्याणामियं शैली यत् सामान्येनाभिधाय तदेव विशेषेण विणोति"--इत्युक्तरिति
आव:।
For Private And Personal Use Only