________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२ व.]
प्रायश्चित्तकाण्डम् ।
३६७
नापि प्रतिषिद्धं; किन्तु शास्त्रेण केवलमनुज्ञातम् । तत्र* तस्मिन्नेव प्रकरणे दुश्चिकित्स्यैरित्यादिवाक्येनोदाहतम्। तत्राभ्यनुज्ञानस्यैछिकत्वात्तत्र फलालाभमानं केवलं भवति, न बसौ प्रायश्चित्तौ। योऽपि प्रायश्चित्तार्थं मर्तुमुद्यम्य ततो निवर्त्तते, तस्यापि पूर्वपापं न निवर्त्तते इत्येतावदेव; न तु तेन कर्त्तव्यं किञ्चित् प्रायश्चितान्तरमस्ति। एवञ्च सति प्रतिषिद्धमेव परिशिष्यते । तत्रापि मर्तुमुद्यम्य मृतस्य दुर्मरणत्वेऽपि न तचेदं प्रायश्चित्तं, तत्कनुरेवाभावात्(१) । यस्तुद्यम्य मरणविवर्त्तते, तस्येदं प्रायश्चित्तम् । मनु तस्यापौदं न युक्तम्, श्रात्महत्यायाः शास्त्रनिषिद्धत्वेन तबिवृत्तः शास्त्रीयत्वात् । वाढम् । न हि वयं निवृत्तिनिमित्तमिदं प्रायश्चित्तं ब्रूमः, किन्तु निषिद्धाचरणोद्यमनिमित्तम्। उद्यममानस्य निमित्तत्वादेव प्रायश्चित्तस्य स्वल्पत्वमुपपद्यते।
जलान्यादिषु मर्तुमुद्यम्य ततो निवृत्ताः प्रत्यावमिताः, तादृशानां चतुणों वर्णानां पृथक् पृथक् प्रायश्चित्त काव्यमिति प्रश्नवाक्यस्यार्थः । तत्र चत्रियस्य प्राजापत्यदयं, वैश्यस्य तौयाचा, शूद्रस्य वृषभसहितगोदाकदान, ब्राह्मणस्य वनगमनादिवतम्।।
* इत्यमेव पाठः सर्वत्र । मम तु, तप,-इति पाठः प्रतिभाति । + वनगमनादि प्रपक्षितम्, इति मु. ।
(१) दुर्मरणं हि पापजनकम् । मरणात् परमेव दुर्मराज पापमु
त्पद्यते । एवञ्च सति तस्य पापभागित्वेऽपि न तस्य प्रायश्चित्तकविसम्भवः । जोवतरव तत्राधिकारादिति भावः ।
For Private And Personal Use Only