SearchBrowseAboutContactDonate
Page Preview
Page 376
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३६६ पराशरमाधवः। [१२ प०। गोइयं दक्षिणां दद्यात् शुद्धिं पाराशरोऽब्रवीत् । मुच्यते तेन पापेन ब्राह्मणत्वञ्च गच्छति ॥८॥ जलान्यादयः पञ्च मरणहेतवः । नदीतटाकादिप्रवेशेनानिप्रवेशेन भृगुपतनेन महाप्रस्थानगमनेनानशनेन च म्रियते । तत्र जलादिमरणं त्रिविधं, विहितं प्रतिषिद्धमनुज्ञातञ्च । विहितं च द्विविधं; काम्यतपोरूपं, प्रायश्चित्तरूपञ्च। तत्र तपोरूपं कूर्मपुराणे नर्मदामाहात्म्ये प्रदर्शितम्,-- "अग्निप्रवेशं यः कुर्य्यात् सोमतीर्थ(१) नराधिप । जले वाऽनाशके वाऽपि नासौ मोऽभिजायते” इति ॥ तत्रैव प्रयागमाहात्म्य ऽभिहितम्,-- "गङ्गायमुनयोर्मध्ये करोषाग्निं विशेत्तु यः । अहौनांगोह्यरोगश्च पञ्चेन्द्रियसमन्वितः । यावन्ति रोमकूपाणि तस्य गात्रेषु मानवः ॥ तावदर्षसहस्राणि स्वर्गलोके महीयते । जलप्रवेशं यः कुर्य्यात् सङ्गमे लोकविश्रुते ।। राहुग्रस्थे यदा सोमे विमुक्तः सर्वपातकैः । मोमलोकमवाप्नोति मोमेन सह मोदते"-इति । तदेतत्प्रायश्चित्तरूपं मरणम् । क्रोधादिना यजलादिमरणं, तत्प्रतिषिद्धम् । तथाचाशौचप्रकरणे, क्रोधात् प्रायमित्यादिस्मृतिवाक्यमुदाहृतम् । प्रबलरोगग्रस्तस्य यज्जलादिमरणं, न तद्विहितं (१) सोमतीर्थं नर्मदा । "रेवा तु नर्मदा सोमोद्भवा"-इत्यक्तः । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy