SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २०६ पराशरमाधवः । [अ०। इत्युच्यते। अकामकतन्तु मारणं घातः । दण्डोपलाभ्यां शस्त्रादीन्युपलक्ष्यन्ते । अतएवापस्तम्बः, “पाषाणैर्लगुडैः पागैः शस्त्रेणान्येन वा बलात् । निपातयति योगः* सर्वमेव समाचरेत्” इति ॥ दण्डादूई यदन्येनेत्यत्र दण्डादधिकेन लगुडादिना कृतस्य प्रहारस्य प्रायश्चित्तनिमित्तत्वं वदताऽर्थाद्दण्डप्रहारस्य निर्दोषत्वमङ्गीकतम्। तत्र कोऽसौ दण्ड इत्याकाक्षायामाह,अङ्गष्ठमावस्थूलस्तु वाहुमात्रः प्रमाणतः । आर्द्रस्तु सपलासश्च दण्डइत्यभिधीयते ॥ १० ॥ इति ॥ ___ अङ्गुष्ठमात्र इत्यनेन ततोऽधिकं स्थौल्यं व्यावय॑ते, न त्वल्पम्, अन्त्यस्य बधहेतुत्वाभावात् । वाहुमात्र इत्यनेनाप्यधिकदौर्घव्यावृत्तिः। अतिदीर्घण प्रहारे मुखपर्यन्तप्रसारणेन चक्षुराद्युपघातप्रसङ्गात् । श्रार्द्रलं सपलाशत्वञ्च वेदनाऽनुत्पत्त्यर्थम् । उक्तलक्षणेन दण्डेन भौतिभेवोत्पादयेत्, न तु वेदनामित्याशयः । क्योकदण्डप्रहारेण समस्य गो: पातमूर्छनयोः मतोः प्रत्यवायप्रायश्चित्तप्रमतावपवदतिमूर्च्छितः पतितो वाऽपि दण्डेनाभिहतः स तु । उत्थितस्तु यदा गच्छेत् पञ्च सप्त दशैव वा ॥ ११ ॥ * योगांवें,-इति मु० । | बाहुमानप्रमागाकः,---.नि सु. । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy