SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra का० । ] www. kobatirth.org प्रायवित्तकाण्डम् | तदा तन्मरणनिमित्तं वहननियोजनं योक्त्रमित्युच्यते । हलादिवाहनं दमनादीनामुपलक्षणम् । श्रतएवापस्तम्बः, - “दमने दामने रोधे संघाते चैव योजने । नस्ते सकलपाशैर्व्वी मृते पादोनमाचरेत्” - इति ॥ श्रभिचितवलीवर्द्धस्य वोढुं शिक्षणं दमनम् । दाम्ना पाशेन सम्पादितो दामनः । रोधोगलनिरोधः । सङ्घातः समूहः पूर्वोक्ता पङ्क्तिः, तत्र योजनं बन्धनम् । नस्तः नासिकायां डोरप्रक्षेपः । सकलपाशा दूतरे सर्व्वे बन्धनविशेषाः ॥ बधनिमित्तस्य घातस्य स्वरूपमाह - मत्तः प्रमत्त उन्मत्तश्चेतनो वाऽप्यचेतनः ॥ ८ ॥ कामाकामकृतक्रोधोदण्डैर्हन्यादथोपलैः । प्रहृता वा स्मृता वाऽपि तद्धेतुर्विनिपातने ॥ ८ ॥ * Acharya Shri Kailassagarsuri Gyanmandir मत्तोधनादिना दृतः । प्रमत्तो मद्यपानादिपरवशः । उन्मत्तो व्याध्यादिना विभ्रान्तः । चेतनो लोकव्यवहारादिचमः ? | अचेतनो मुग्धः । मारयिष्यामीति बुद्धिः कामः । व्यर्थचेष्टामात्रमकामः । ताभ्यामुत्पादितः क्रोधोयस्यासौ दण्डादिभिर्यदि हन्यात्, तदा मरणमन्तरेण केवलं प्रहृता स्यात् । तत्कामकृतः संप्रहारो घात * पादलमपाशेन सन्ताड़िता, - इति मु० । + हता वाऽपि स्मृता वापि तद्धि हेतुर्निपातने इति शा० । + मद्यपानादिना व्यवशः, -इति शा० । $ लोकव्यवहारदक्षः, इति शा० । For Private And Personal Use Only २०५
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy