________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
९५४
पराशरमाधवः।
[
प।
अत्रेदं विचार्य्यते। भवत्वकामकृतस्य प्रायश्चित्तमभावे मुनीनामविवादः, कामकृतस्य करीत्या मुनिविप्रतिपत्तौ को निर्णयइतौदं विचार्य्यते ।
अत्र केचिनिर्णयमाहुः । द्विविधा हि पापस्य प्रक्रिः; नरकोत्यादिका, व्यवहारविरोधिका चेति । अतस्तनिवर्त्तकस्य प्रायश्चित्तस्यापि शनिर्दिधा भिद्यते ; नरकनिवारिका, व्यवहारजननौ चेति । तत्र प्रायश्चित्ताभाववादिनां मुनौनां नरकनिवारणाभावोऽभिप्रेतः, सद्भाववादिनां तु व्यवहारजननौ प्रकिरभिप्रेता। अयञ्च निर्णयो याज्ञवल्क्येन विस्पष्टमभिहितः,
"प्रायश्चित्तैरपैत्येनो यदजानकृतं भवेत्।
कामतो व्यवहार्य्यस्तु वचनादिह जायते"-इति ॥ अस्यायमर्थः । यदेनो ब्रह्मघातादिकमज्ञानकृतं, तदिहितैादशवार्षिकादिभिरपैति । कामतस्तु कृतं रेत्, म पुमान् शिष्टैर्व्यवहार्यः केवलमिह लोके भवति, न तु तस्य नरकापादकमेनः प्रायश्चित्तैरपैति । नन्वेवं सति प्रायश्चित्तं पापस्य काञ्चिच्छक्रिमपनुदति काञ्चिन्नेत्यर्द्धजरतीयं प्रसज्येत। न हि कुक्कुश्या एको भागः पच्यते अपरोभाग: प्रमवाय कन्यते इति क्वचिदृष्टम् । न । वचनादर्द्धजरतीयस्थाप्यङ्गीकार्यत्वात् । “किं हि वचनं न कुर्य्यात् नास्ति वचनस्यातिभारः' - इति न्यायात् । अन्यथा यौकिकमन्यः पापशक्ति पायश्चित्तशतिं च केन दृष्टान्तेन ममर्थयौत । वचनञ्च कामकृतानां द्विगुणं व्रतं दर्शयति.
“विहितं यदकामानां कामात्तद्विगुणं भवेत्" इति ।
For Private And Personal Use Only