________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रायश्चित्तकाहम् ।
१५२
जापालिरपि,
"कामकृतपापानां ब्रुवन्ति ब्राह्मण व्रतम् ।
कामकारकृतेऽप्येके द्विजानां वृषलस्य च” इति । देवलोऽपि,
“यत् स्यादनभिसन्धाय पापं कर्म महत् कृतम् । तस्येयं निष्कृतिः प्रोक्ता धर्मविद्भिर्मणैषिभिः ।। विधेः प्राथमिकादस्माद्दितीये द्विगुणं स्मृतम्। हतीये त्रिगुणं इच्छं चतुर्थ नास्ति निष्कृतिः ॥ अभिसन्धिकते पापे मकदा नेह निष्कृतिः ।
अपरे निष्कृतिं ब्रयुरभिसन्धियतेऽपिच”-रति॥ बौधायनस्तु कामातस्य प्रायश्चित्ताभावमाह,
"श्रमत्या ब्राह्मणं हत्वा दुष्टो भवति धर्मतः । ऋषयो निष्कृतिन्तस्य वदन्धमतिपूर्वके ॥
मतिपूर्व हते तस्मिन् निष्कृति पलभ्यते” इति । कागलयोऽपि,
“प्रायश्चित्तमकामानां कामात्प्राप्तौ न विद्यते” इति। अङ्गिरास्तु कामकृतस्थ द्विगुणं व्रतमाह,
"अकामतः कृते पापे प्रायश्चित्तं न कामतः ।
स्यात्त्वकामकते यत्तु दिगुणं शुद्धिपूर्वके"-इति॥ एवञ्च कामकृते विप्रतिपत्तावपि(१) प्रकामते तदभावान्तादृशः मर्वसम्मतो मुख्याधिकारी। (१) व्याहतमेकार्थं दर्शनं विप्रतिपत्तिः। कामकते प्रायश्चित्तमस्तीत्ये.
केषां दानं, नास्तीत्यन्येषाम् । ते एते परस्परविरद्धे दर्शने एकस्मिन विधये प्रवर्तमाने विप्रतिपक्तिं प्रयोजयतः ।
For Private And Personal Use Only