SearchBrowseAboutContactDonate
Page Preview
Page 773
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir पराशरमाधवः । ३ च०,था.का.. “वनयस्तु ये विप्रा ये चैकामय एवच ।। तेषां मपिण्डनादूर्ध्वमेकोद्दिष्टं न पार्वणम्” इति स्मृत्यन्तरे सानिकस्याप्येकोद्दिष्टविधानात्(२) । एकोद्दिष्टलक्षणमाह याज्ञवल्क्यः, "एकोद्दिष्टं दैवहौनमेकाधैंकपवित्रकम् । श्रावाहनानौकरणरहितं ह्यपसव्यवत् । उपतिष्ठतामित्यक्षय्यस्थाने विप्रविसर्जनम् । अभिरम्यतामिति वदेव्युस्तेऽभिरतास्म ह” इति। कात्यायनोऽपि । “अथैकोद्दिष्टमेकं पात्रमेकोऽर्थ एकं पिण्डं • नावाहनं नाग्नौकरणं नात्र विश्वेदेवाः खदितमिति बप्तिप्रश्नः सुखदितमित्यनुज्ञानमुपतिष्ठतामित्यक्षय्यस्थाने अभिरम्यतामिति विमर्ग अभिरतास्मेत्यपरे"-इति। तच्चैकोद्दिष्टं त्रिविधं, नवं नवमिश्रं पुराणं चेति। अत्र प्रथमाहायेकादशाहान्तविहितं नवश्राद्धम्। तथा चाङ्गिराः, "प्रथमेऽहि हतीये च पञ्चमे सप्तमेऽपिवा । नवमैकादशे चैव तन्त्रवश्राद्धमुच्यते"-इति ॥ वसिष्ठोऽपि, * एकः पिण्ड इति ना। (१) वश्मयः श्रौतामिमन्तः। एकामयः मानिमन्तः। (२) तथाच पार्वणैकोद्दिथ्योर्विकल्पव्यवस्थैव साधीयसौति भावः । For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy