SearchBrowseAboutContactDonate
Page Preview
Page 736
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ३१०,या०का | पराशरमाधवः। ७६१ तेषां मध्ये पुरूरवावसंज्ञका विश्वेदेवा अत्रावाह्याः, पार्वणश्राद्धत्वात् । अतएव शङ्खः, "इष्टिश्राद्धे क्रतुर्दचः मकौत्त्यौं वैश्वदैविके । नान्दोमुखे सत्यवसू काम्ये च धुनिरोचनौ ॥ पुरूरवाईवौ चैव पार्वणे समुदाहतौ ।। नैमित्तिके कालकामावेव सर्वत्र कौतयेत्” इति ॥ इष्टिश्राद्धं कर्माङ्गश्राद्धम् । तच्च पारस्करेण दर्शितम्, “निषेककाले सोमे च सौमन्तोषयने तथा । ज्ञेयं पुंसवने श्राद्ध कर्माकं वृद्धिवत्कृतम् (१)"--इति ॥ वृद्धिवदित्यनेन वृद्धिश्राद्धान्न काङ्गश्राद्धमन्यदिति ज्ञायते । नान्दोमुखं वृद्धिश्राद्धम् । तत्स्वरूपं वृद्धवसिष्ठ पाह,___ "पुत्रजन्मविवाहादौ वृद्धिश्राद्धमुदाहतम"-इति । त्रादिशब्देनाबप्राशनचूड़ाकरणदिसंस्कारा ग्रान्ते न तु गर्भाधानपुंसवनसीमन्तोन्नयनानि, तत्र क्रियमाणस्य काङ्गश्राद्धत्वात्(२) । काम्यं फलकामनोपाधिकम् ३) । पार्वणममावास्थाश्राद्धम(५)। नैमिसिकं सपिण्डौकरणम् । ननु, - (१) निषेककालोगर्भाधानकालः। सोमः सोमयागः । सौमन्तोनयन पुंसवने गर्भावस्थाकतव्यसंखारविशेषौ। (२) एकमेव वृद्धिलाई तत्र तत्र तत्तहिश्वदेवानां लाभार्थं कम्माङ्गत्वेन डिभाइत्वेन च परिभाषितमित्यनुसन्धेयम्।। (३) “कामाय तु हितं काम्यमभिप्रेतार्थसिद्धये" इति पुराणेष स्मयते। (8) "अमावास्यां यत् क्रियते तत् पार्वणमुराहतम्"-इति स्मरणा मिति भावः। For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy