SearchBrowseAboutContactDonate
Page Preview
Page 735
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ७३० पराशरमाधवः। [श्च०,धा का दर्भाः" इति। श्रासनं दत्त्वा पुनर्निमन्त्रयौत। तदाह संग्रहकारः। "ततः पुनरपी दत्त्वा निमन्त्रयेत् । दैवे क्षणः क्रियता, ततः प्रोम् तथेति विप्रो ब्रूयात् । प्राप्नोत् भवानिति कर्ता पुनर्ब्रयात्, प्राप्तवानिति विप्रः पुनर्च्यात्” इति। निमन्त्रणच निरङ्गुष्ठं हस्तं ग्टहीत्वा कर्त्तव्यम् । तदुकं पुराणे,____ “निरङ्गुष्ठं ग्टहीत्वा तु विश्वान् देवान् समातयेत्” इति । अङ्गुष्ठव्यतिरिक्त हस्तं शहौवा निमन्य विश्वान् देवान् समाइयेदित्यर्थः। आवाहनेतिकर्तव्यतामाह यमः,- .. "यवहस्तस्ततो देवान् विज्ञायावाहनं प्रति । आवाहयेदनुज्ञातो विश्वेदेवास इत्यूचा ॥ विश्वेदेवाः स्टणुतेति मन्त्रं जवा ततोऽक्षतान् । श्रोषधयेति(१) मन्त्रेण विकिरेतु प्रदक्षिणम्” इति ॥ प्रदक्षिणं दक्षिणपादादिमस्तकान्तमक्षताविकिरेत् भारोपयेदित्यर्थः । विश्वेदेवास्तु दश वृहस्पतिना दर्शिताः, "क्रतुर्दक्षो वसुः सत्यः कालः कामस्तथैवच । धुनिश्च रोचनश्चैव * तथा चैव पुरूरवाः ॥ आर्द्रवाच । दशैते तु विश्वेदेवाः प्रकीर्तिताः” इति ॥ * धुरी विलोचनश्चैव, - इति मु०। धुरिश्च लोचनश्चैव, इत्यन्यत्र पाठः। + माद्रवाच, इत्यन्यत्र पाठः । (१) पोषधयेति, इत्यत्र विसर्गलोपे सन्धिरापः। घोषधय इति,इति कचित् पाठः। For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy