SearchBrowseAboutContactDonate
Page Preview
Page 648
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ३५०,मा.का. पराशरमाधवः। "शालिना शकुभिवाऽपि शाकैवाऽप्यथ निर्बपेत् । प्रथमेऽहनि यद्दव्यं तदेव स्थाद्दशाहिकम्” इति ॥ यदा तु दशाइमध्ये दर्शपातस्तदा दर्शएवोत्तरं तन्त्र पिण्डोदकदानरूपं समापयेत् । तदाह सुष्यटन: "श्राशौचमन्तरा दर्शा यदि स्यात्मर्ववर्णिनः । समाप्निं प्रेततन्त्रस्य कुर्युरित्याह गौतमः" इति ॥ भविष्यपुराणेऽपि, "प्रवृत्ताशौचतन्त्रस्तु यदि दशैं प्रपद्यते ।। समाप्य चोदकं पिण्डं खानमा समाचरेत्" इति॥ पैठीनमिरपि, "श्राद्येन्दावेव कर्त्तव्या प्रेतपिण्डोदकक्रिया। दिरैन्दवे तु कुर्वाणे पुनः शावं ममश्रुते"-इति ॥ मातापितविषये तु विशेषो गालवेनोकः, "पित्रोराशौचमध्ये तु यदि दर्शः समापतेत् । तावदेवोत्तरं तन्वं पर्यवस्येत् यहात् परम्" इति ॥ पिचोराशौचमध्ये तु त्रिराचात्परं यदि दर्श: समापतेत्, तदैवोत्तरं तन्त्रं दर्श समापयेत्, नाग्दिर्शपाते। यत्त श्लोकगौतमेनोक्रम्, "अन्तर्दशाहे दर्श तु तत्र सर्व समापयेत् ।। पित्रोस्तु यावदाशौचं दद्यात् पिण्डान् जलाञ्जलीन्”-इति॥ तत् चिरात्रादर्वाग्दीपाते वेदितव्यं, अहात्परमिति गालवेन विशेषितत्वात् । पिण्डोदकदानानन्तरं बान्धवैरातुराश्वासनं कार्यम् । For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy