________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
श्था,चाका
पराशरमाधवः ।
"दिने दिनेऽजलीन् पूर्णान् प्रदद्यात् प्रेतकारणात् ।
तावद्धिश्च कर्त्तव्या यावत्पिण्डः समाप्यते"-इति । यावद्दशमः पिण्डः ममाप्य ने, तावदलिद्धिः कार्येत्यर्थः । अत्रापरोविशेषस्तेनैवोका,
“नदीकूलं ततो गत्वा शौचं कृत्वा यथार्थवत् । वस्त्रं संशोधयेदादौ ततः स्नानं समाचरेत् ॥ सचेलस्तु ततः स्नात्वा शुचिः प्रयतमानमः । पाषाणं तत श्रादाय विप्रे दद्यात् दशाअलीन्॥ द्वादश चचिये दद्याद्वैश्ये पञ्चदश स्मृताः । त्रिंशच्छूट्राय दातव्यास्ततः सम्प्रविशेड्रहम् ॥
ततः स्नानं पुनः कार्य ग्रहशौचञ्च कारयेत्”-इति॥ प्राज्ञातिभिरपि क्वचित् उदकदानं कर्त्तव्यम् । तदाह याज्ञ
"एवं मातामहाचार्यप्रेतानामुदकक्रिया। कामोदकं मखिप्रत्तास्वतीयश्वरविजाम्" इति ॥ प्रत्ता परिणीता दुहिटभगिन्यादिः । वसीयोभागिनेयः । अत्र प्रेताना मातामहादीनां मपिण्डवदुदकदानं नित्यं कार्य, मख्यादीनां तु कामतः न नित्यतया, अकरणे प्रत्यवायाभावादिति ।
उदकदानानन्तरं पिण्डदानमपि कर्त्तव्यम् । तथाच विष्णः। "प्रेतस्थोदकनिर्वपणं कृत्वा एकञ्च पिण्डं कुशेषु दद्युः” इति। पिण्डोदकदानञ्च यावदाशौचं कार्यम्।तदाहमएवा यावदाशौचं तावत्येतस्योदकं पिण्डच्च दधुः” इति । वर्णनुक्रमेण पिण्डस यानियमः पारस्करेणोकः
81
For Private And Personal