________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
पराशरमाधवः।
चाका..
यद्यन्नमत्ति तेषां यः स दशाहेन. शुध्यति ।
अनदन्नन्नमहैव न च तस्मिन्टहे वसेत्" इति ॥ यस्तु प्रेतनिहरणं कृत्वा तद्हे वमति न च तदन्नमनाति तस्य त्रिरात्रमाशौचं, यस्तु तगहे वसन् तदन्नमनाति तस्य दशरात्रं, यः पुनः प्रेतं निहत्य तगहवास तदत्रच परित्यजति तस्यैकाहमित्यर्थः । एतत्मवर्णविषयम् । असवर्णशवनिहारे तज्जातीयमाशौचं कार्यम् । तदाह गौतमः। “अपरश्चेवर्णः पूर्ववर्णमुपस्पृशेत्यावाऽपरं तच्छवोतमाशौचं" इति। उपस्पर्शनं निहरणम् । ब्राह्मणस्य शूद्रशवनिहारे मासमाशौचम्, शूद्रस्य ब्राह्मणशवनिर्हारे दशामाशौचं भवतीत्यर्थः । यस्त्वर्थलोभादसवर्णशवनिर्हरणं करोति तस्य दिगुणमाशौचं भवतीति । तथाच व्याघ्रः,
"अवरश्चेद्वरं वर्ण वरोवाऽप्यवरं यदि। वहेच्छवं तदाशौचं रत्त्यर्थे द्विगुणं भवेत्" इति ॥ असवर्णप्रेतनिहरे तदुक्तमाशौचं, तत्र वेतनाश्रयणे दिराणमाशौचं भवतीत्यर्थः। यत्तु विष्णुपुराणे,
“योऽसवर्ण तु मूल्येन नीत्वा चैव वहेन्नरः ।
आशौचं तु भवेत्तस्य प्रेतजातिममं सदा"-दति ॥ तदापदि द्रष्टव्यम्। अर्थलोभात्मवर्णशववहनादौ खजात्युकमाशौचं कार्यम् । तथाच कूर्म,
"यदि निहरति प्रेतं प्रलोभाकान्तमानसः । दशाहेन द्विजः शुध्येवादशा हेन भूमिपः ॥ अर्द्धमासेन वैश्यस्तु शूद्रोमासेन प्राध्यति" इति।।
For Private And Personal